________________ तृतीयोऽध्यायः चतुर्थः पादः 263 (140) दीप्ये / [3 / 4 / 12 / 6 / ] दीङ ई आ स्याद् एज्विषये क्त्वादेशोऽप्येव / दाता / दानम् / दायः / उपदाय / एच् प्ये किम् ? दीयते / दीङ् ई किम् ? देदेति / यङ् लुग्धात्वन्तरम् / / (141) सनि वा / [3 / 4 / 127 / ] तथा / दिदासते / दिदीषते // (142) लियोऽखापि / [3 / 4 / 12 / 8 / ] ख-अप्-वजिते एच् प्ये आ वा स्यात् / विलाता / विलेता / विलीनयति / विलापयति / घृतमुपलाय, [उपलीय / ] लिडो नित्यमात्वे, लिनातेविलेलीष्ट न स्यात् / अखापि किम् ? इषल्लयः / विलयः / एच् प्ये किम् ? लीनम् / लिलीषति // (143) नीमिङः / [3 / 4 / 12 / 9 / ] तथा नित्यम् / प्रमाता / निमातुम् / प्रमाय / एच् प्ये किम् ? मेमीचते / मितम् / अखापि किम् ? दुर्मयः / (144) स्फुस्फुलि घे / [3 / 4 / 12 / 10 / ] घण्यनयोरेजा स्यात् / विस्फारः / विस्फालः / घे किम् ? विस्फारिता // (145) मृजोऽत् / [3 / 4 / 12 // 11 / ] आ स्यात् / मार्टा / मार्जनम् / माष्टिं / अत् किम् ? मृष्टः // (146) वाऽरच्यत् / [3 / 4 / 12 / 12 / ] मृजेर्ऋत् आर् वा स्यादचि परे / मृजन्ति / मार्जन्ति / मृजन् / मार्जन् / अचि किम् ? मृष्टः / ऋत् किम् ? मार्जनम् // (147) ण्युपान्ते / [3 / 4 / 12 / 13 / ] भ्वादेरुपान्तस्थोऽत् आ स्याण्णिति परे / पाचयति / नाययति / लावकः / कार्यम् / णि किम् ? पचनम् / उपान्ते [किम् ?] रक्षयति / अत् किम् ? गोपायति / धातोः किम् ? त्वचायति / मदयति // (148) घति हन् / [3 / 4 / 12 / 14 / ] हन घत् स्यात् णिति / घातयति / घातकः / घातो वर्तते / श्वघात्यः // (149) घनिण्णो हन् / [3 / 4 / 12 / 15 / ] घन् स्याद् इणि णे च, न घतिः / अघानि / जघान // 12 // जन्वत्सेष्टोऽनाचमिकमिवमोऽविश्रमो नाणि णे युक् आतोऽरेडुन्विक्कुसि पुकि परे स्यादुपान्ते तिको द्विः / चेद्धल्लावक्विज्झलि सृजिदृशोऽम् वा तृपां मग्नशोर्नुम् तीतो मुनां शे जभचि रथ इट् लिट्यलिट्शे रभस्तु // 3 / 4 / 13 // कुसुमितलता // (150) जन्वत्सेष्टोऽनाचमिकमिवमोऽविश्रमो नाणि णे / [3 / 4 / 13 / 1 / ] जन्वधोः सेटो मान्तस्य चाऽनाचमादेरणि णे णिनि आदान् स्यात् / अजनि / जनकः / प्रजनः / साधुजनी / अवधि / [वधकः / वधः / वध्यः / ] सेण्मः / अशमि / [शमकः / शमः / शमी / ] अतमि / - [तमकः / तमः / तमी / ] सेट् किम् ? यामकः / रामकः / उद्यमेऽड, उपरमे यमु इति