________________ 256 पञ्चग्रन्थी व्याकरणम् (111) ऋदस्पप्राम् / [3 / 4 / 10 / 3 / ] एषामन्तो लिटि रित् स्याद् वा / ददार / [दद्रतुः / दद्रुः / ] ददरुः / ददृवान् / ददीर्वान् / पुपूर्वान् / क्वंसर्थं वचनम् // (112 ) वय वे / [3 / 4 / 10 / 4 / ] वेञ् वा वय् स्याल्लिटि / उवाय / उवयिथ / ऊयुः / ऊयिवान् / ववौ / वविथ / वपुः / ऊवु: / वविवान् / ऊविवान् // . (113) नियुग्नेहीङाम् / [3 / 4 / 10 / 5 / ] इन्ध् दीङ् इङ् एषां यथासंख्यं न्लुग् युगागमगादेशाः स्युः नित्यं लिटि / समीधे / समीधानः / अत एवेन्धेलिट् / उपदिदीये / उपदिदीयानः / अधिजगे / [अधिजगानः / ] इन्धेर्नित्करणं लिट्यन्यस्यालुगर्थम् / दध्वंसे // (114) वुक् चाचि भ्वः / [3 / 4 / 10 / 8 / ] भुवो वुक् स्याल्लिट्यचि / बभूव // (115) लुङि / [3 / 4 / 10 / 7 / ] तथा / अभूवम् / अचि किम् ? अभूवन् / अभूत् // (116) अद् घस्ल / [3 / 4 / 10 / 8 / ] स्याल्लुङि / अघसत् / जघास / जक्षुः / आद / आदुः / जघसटोलिटि // (117) अच् साब्ये / [3 / 4 / 10 / 9 / ] तथा अच् सन् अब् घणि / प्रघसः / जिघत्सति / प्रघसः / घासः / तृदडर्थः / एष्वद्विवृत्त्यर्थमिदम् // (118) अघाब्क्योऽज्वी / [ 3 / 4 / 10 / 10 / ] अजि वी स्याद् घ-अप्-क्यवर्जिते ल्यशि विषयस्थे / प्रवेयम् / अघाब्क्ये किम् ? समाजः / उदाजः / समज्या // (119) वल्यौ / [3 / 4 / 10 / 11 / ] वलादौ यौ ल्यशि विषयस्थोऽज् वी च कार्यद्वयं स्यात्, पार्थक्यात् / अजिर्वर्तते / प्राजिजीषति / प्राविवीषति / प्राजिष्यति / प्रवेष्यति / प्राजिता / [प्रवेता / ] प्रवेतुम् / [प्राजितुम् / ] यौ / प्राजनो दण्ड: / प्रवयणो वा / अघाच्च ल्युक्येऽज्वीति कृते घादौ अजेः विषयश्च रूपद्वयं सिध्यति / किन्तु घाब्क्ये वियोऽप्रयोगार्थमिति पाणिनिः // (120) त्स्सीट् / [ 3 / 4 / 10 / 12 / ] भ्वादेः सतस्यात् सादि ल्यशि / इडुत्तरार्थः / वस् / वत्स्यति / विवत्सति / व्यतिवत्सीष्ट / अवात्सीत् / घत्स्यति / [जिघत्सति / ज्यतिघत्सीष्ट / अघात्सीत्] सत् किम् ? अधिजिगासते / स किम् ? वस्ता / ल्यशि किम् ? आस्से / वस्से // 10 // सेट: स्तो ग्रह ईन्न वाऽलिडि तु व पित्तिङ् बलो ब्रूयङः स्यस्सो लोऽऽद ईसोऽड्वलि जनीशीङ्स्थ्व इ8 लिटः / वा त्वदृश्शृजवोऽनिटस्तृचि सदा नर्तोऽव॒धस्व्येवयुः स्कृस्तु द्रु सृ भृ वृ श्रुत्रु विशदृशो गम्हन् विदो वा क्वसोः // 3 / 4 / 11 // शार्दूलविक्रीडितम् // (121) सेट: स्तः / [3 / 4 / 11 / 1 / ] इट् सज्ज्ञातौ परस्य ल्यशः स्तः, लिट: लिङः असकारस्य च स्तः / सकारतकारादेः इट् आगम: स्यात् / सेटोऽनिटो वेट उदाहियन्ते छन्दोभिरेकादशभिस्तु नाना //