________________ तृतीयोऽध्यायः चतुर्थः पादः 255 (100) वा भू यि / [3 / 4 / 9 / 4 / ] बह्वादेशो भूयस्ततः पर इ इद वा स्यात् ल्यशि / बहूनाचष्टे / णिञ् / तत आशीलिञ् / भूय्यति / भूयीयात् / भूयिता / भूययिता / भूयनम् / भूययनम् / भूय्यते / भूयीयते / ल्यशि किम् ? भूययति / परे किम् ? भूयिष्ठः / भूष्णि वा पाठः / / (101) णिः / [3 / 4 / 9 / 5 / ] इन्नित्यम् / अततक्षत् / आटिटत् / काम्यते / ल्यशि किम् ? कारयति // (102) क्तेटि / [3 / 4 / 9 / 6 / ] तक्तवतोरेवे यणिरित् स्यात् / कारितः / हारितवान् / क्त किम् ? कारयिता / हारयितुम् // (103) अयान्त इनौ / [3 / 4 / 9 / 7 / ] णिरय् स्याद् आ अन्ते इत्नौ च परे / कारयाञ्चकार / स्पृहयालुः / स्पृहयाय्यः / मण्डयन्तः / स्तनयित्नुः / [गदयित्नुः / ] एषु किम् ? कारणम् // (104) वाऽऽपो लघोल्यॆ / [3 / 4 / 9 / 8 / ] क्तादेशे ल्ये परे णिरय् स्यादापः परे / वा लघोनित्यं, भेदात् / प्रापय्य [गतः] प्राप्य गतः / आपो विहितः किम् ? [इङादेशस्य लाक्षणिकत्वान्न भवति / अध्याप्य गतः / ] लघोः किम् ? प्रपात्य गतः // (105) वचि कसिर्भूः / [3 / 4 / 9 / 9 / ] कर्तृवचिः असिः भूः स्यात् ल्यशि / वचि भूवि / उवाच / उच्यात् / वावच्यति / वावाच्यते / वक्ता बभूव / भविता / ल्यशि किम् ? ब्रूते / ब्रूयात् / अस्ति सत् स्यात् // . . (106) भ्रस्जोऽपि भर्जु / [3 / 4 / 9 / 10 / ] ल्यशि भ्रस्जो भ स्यात् / भ्रस्जोऽपि स्यात् / बभर्ज / बभ्रस्र्जे / भीष्ट / भ्रक्षीष्ट / बिभक्षति / [बिभ्रक्षति / ] अभाीत् / [अभ्राक्षीत् / ] इह परत्वाद् यणिक / भृज्यात् / भृष्टः / बरीभृज्यते / ल्यशि किम् ? भृज्जति // . . (107) चक्षि तु ख्शाञ् / [3 / 4 / 9 / 11 / ] स्याल्ल्यश्विषये / आख्शायात् / क्ष्याख्शासीष्ट / अचिख्शासते / आख्शायते / आख्शाता / बिदुभयपदार्थः // (108) श्यखो वा / [3 / 4 / 9 / 12 / ] उत्क्रोशे शात् ख / खकारात् पर: सयो वा स्यात् / शरि चः स्ख इति कः खो वा स्यात् / आख्यायात् / आख्शायात् / आख्यासीष्ट / इत्यादि / पुख्यानम् / [आख्यानम् / ] पर्याख्यानम् / [प्रत्याख्यानम् / ] नमः ख्यात्रेऽस्योऽसदिति यस्याऽसत्त्वात् तदाश्रयं कार्यं न स्यात् // 9 // वर्जेऽस्यो नो लिट्य दृशृप्रां वय् वे नियुग्नेद्दीडाम् / वुक् चाचिभ्वो लुड्यास्लुच् साब्धेऽघाब्क्योऽज्वी वल्यौ त्स्सीट् // 3 / 4 / 10 // विद्युन्माला // (109) वर्जेऽस्यो नः / [3 / 4 / 10 / 1 / ] वर्जनेऽर्थेऽसि यौ च परे आदेशो नो स्यात् / परिचक्षाः / निचक्षाः / विचक्षणः / प्रत्याख्येयः / व्याख्यानम् इति व्याख्याते // . (110) लिटि / [3 / 4 / 10 / 2 / ] वा खश वर्तते / ख्शाञ् वा स्यात् / आचख्शौ / आचख्यौ / आचचक्षे //