________________ 254 पञ्चग्रन्थी व्याकरणम् (89) ऊद् दोषः / [3 / 4 / 8 / 3 / ] अच् णौ / दूषयति / दूषयिता // (90) वा चित्ते / [3 / 4 / 8 / 4 / ] अर्थे तथा / चित्तं दूषयति / दोषयति वा / एवं मनो, बुद्धिः // (91) गो हः / [3 / 4 / 8 / 5 / ] गुहः कृतोत्वस्य हः / हान्तस्यार्थाद् अचि उनक स्यान्नित्यम् / गृहयति / गृहकः / साधु गूहि / गृहिता / गोह् किम् ? जुगुहुः / हः किम् ? गोढा // (92) ऋद्रोरिर्च / [3 / 4 / 8 / 6 / ] ऋत ऋकारान्तस्य च आदेरच इर् स्यात् प्रत्यये परे / कीर्तयति / कीर्तिः / री / चेकीर्यते / जेगिल्यते / किरति / गिरति / कीर्णम् / चीकीर्षति / जिगीर्षा / कृतः / कृदुपदेशो, अचीकृतद् इति ऋत्वार्थम् // (93) उरोष्ठ्यात् / [3 / 4 / 87 / ] पर ऋ तथा / पोपूर्यते / पोपूर्तो ना पू: पुरौ / वुवुर्षति // (94) कः से षो ढः / [3 / 4 / 8 / 8 / ] षो ढश्च क: स्यात् सादौ परे / पिपक्षति / पेक्ष्यति / पिप्रक्षति / प्रक्ष्यति / ढः / विवक्षति / विवेक्ष्यति / से किम् ? पिष्ट / मीढ // (95) ल्यश्याच्चेत् / [3 / 4 / 8 / 9 / ] भ्वादेरित इलुक् स्यात् ल्यशि लिटि लिङि असादौ . प्रत्यये परे / चिकीर्ष्यात् / चिकीर्षक: / चिकीर्ण्यते / चिकीर्षताम् / लोलूयिषीष्ट / च्वादेः किम् ? वृक्षत्वम् / अत् किम् ? पाता / ल्यशि किम् ? चेकीपेत् / लोलूयेते / इत् शदीत्यर्थम् / ल्यशीत्या जागुः // (96) यो हल्भ्यः / [ 3 / 4 / 8 / 10 / ] तथेत् / बिभेदिषीष्ट / मोमूत्रिता / हलः किम् ? लोलूयिता / हल्यो विहितः किमित्यन्ये / मोमूत्र्यता / भ्यस् किम् ? इष्यता / धातुहल्भ्यः सर्वेभ्यः परो यः प्रत्यय इत्यर्थः / ल्यशि किम् ? वेविद्यते // 8 // क्यो वा दरिद्रः सिचि वाऽस्वकाने वा भू यि णिः क्तेटि अयान्त इनौ / वाऽऽपो लघोडें वचि कसिर्भू भ्रस्जोऽपि भर्ज चक्षि तु शाञ् श्यखो वा // 3 / 4 / 9 // वृत्तम् / / (97 ) क्यो वा / [3 / 4 / 9 / 1 / ] क्यच् क्यङ् तथा वेत् / समिध्यिता / समिधिता / [दृषधिता / दृषदिता / ] समिध्यिषीष्ट / [समिधिषीष्ट / दृषधिषीष्ट / दृषदिषीष्ट / ] हलः किम् ? पुत्रीयिता / ल्यशि किम् ? समिध्यति // (98) दरिद्रः सिचि वा / [3 / 4 / 9 / 2 / ] दरिद्रातेरन्तः सिचि इद् वा स्यात् / अदरिद्रीत् / अदरिद्रासीत् / अदरिद्रिष्टम् // (99) अस्वकाने / [3 / 4 / 9 / 3 / ] सवोऽकनवर्जितो ल्यशि नित्यम् / दरिद्यात् / [दरिद्र्यते / दरिद्रयति / ] दिदरिद्रिषति / ङ्यण् / दरिद्रः / अस्वकाने किम् ?. दिदरिद्रासति / दरिद्रावान् / दरिद्रायकः / दरिद्राणम् / ल्यशि किम् ? दरिद्रति / अतो निषेधात् लिट् //