________________ तृतीयोऽध्यायः चतुर्थः पादः 253 मात्रा // . (79) गमेऽविदि / [3 / 4 / 7 / 9 / ] गम: स्यात् / इण् इक् च सनि परे सादौ न सम्बध्यते, अविदि अबोधनेऽर्थे / जिगमिषति / सञ्जिगंसते / अधिजिगंसते मातरम् // (80) णौ / [3 / 47 / 10 / ] तथा / गमयति / विदि / अर्थान् प्रतीषिषति / प्रत्याययति // (81) ऋशां पुयुः / [3 / 4 / 7 / 11 / ] ऋआदेः शादेश्च पुक्युक्स्यात् किता सम्बद्धाण्णौ परे / तद्द्वयोस्तु / होक्नूयीक्ष्मायीब्लेः पुक् / शाच्छासाह्वाव्यावेपां युक् / ऋ अति ही नूयी री रीट् वा / अर्पयति दापयति / हेपयति क्नोपयति / रेपयति / मापयति / ब्लेपयति / पुकि प्लुक्, एङ् च / शाययति इत्यादि [अवच्छाययति / अवसाययति / ह्वाययति / संव्याययति / ] वेग्रहणाद् वातेन वाययति केशान् / कृतात्वानां ग्रहणं लाक्षणिकस्यापि युगर्थम् / क्नापयति / पूर्वान्तकरणम् / अदीदपत् / असीसदत् / चङि हुस्वार्थम् // (82) नु लुकोऽतो धूप्योः पातेः / [3 / 4 / 7 / 12 / ] पदापेक्षं यथासंख्यं धूप्योः नुक्, पातेलृक् स्यात् / णौ पुयुनुलु एते कितस्तथोदाहृताः / विधूनयति / प्रीणयति / पालयति / पाते: किम ? पाययति. पयः केशान वा // (83) लियो ल उ वा घृते / [3 / 4 / 7 / 13 / ] घृते तद्विषये क्रियार्थे लियो लातेश्च नुकूलको स्तावाणौ परे / उ निपातः / घृतं विलीनयति / [घृतं] विलाययति / कृता त्वस्य लुगेव / घृतं विलापयति / घृते किम् ? जतु विलापयति / एवं, घृतं विलालयति / विलापयति / घृते किम् ? जयभिरालापयते // . (84) रुहगतिशदोः पस्तः / [3 / 4 / 7 / 14 / ] णौ रुहोऽन्तः पो वा स्यात् / आगत्यर्थसदः तो नित्यं, पस्त इति पार्थक्यात् / व्रीहीनारोपयति / आरोहयति / रूपोऽन्यार्थः / फालानि शातयति / गतौ / गाः शादयति [गमयति] // (85) स्फायो वः / [3 / 4 / 7 / 15 / ] अन्तो णौ स्यात् / स्फावयति // (86) जुक् च उ धूनने / [3 / 4 / 7 / 16 / ] वाते च जुक् स्यात् णौ विधूननेऽर्थे / उ निपातः / पक्षकेणोपवाजयति / धूनने किम् ? वै शोषणे / आवापयति केशान् / वजोऽन्यार्थः // 7 // स्फुर्चेर्वाऽजात् क्रीजीङा स्यादुद्दोषो वा चित्ते गो हः / ऋद्रोरि!रोष्ठ्यात् कः से षो ढो ल्यश्याच्चेद्गो हलभ्यः // 3 // 48 // विद्युन्माला // (87) स्फुर्चेर्वाऽजात् / [3 / 4 / 8 / 1 / ] स्फुरि चिञोऽच् आत् स्याद् वा णौ / विस्फारयति / विस्फोरयति / चापयति / चाययति / पोऽन्यार्थः // (88) क्रीजीङा स्यात् / [3 / 4 / 8 / 2 / ] नित्यम् / क्रापयति / जापयति / * अध्यापयति //