________________ तृतीयोऽध्यायः चतुर्थः पादः 245 (10) दानशानिमानः / [3 / 4 / 25 / ] सन् नानिट् / ई च / दीदांसति / शीशांसति / तङ् वा / [दीदांसते / शीशांसते / ] इति विवक्षार्थः / मानो जिज्ञासायाम् / मीमांसतेऽर्थान् / जिज्ञासत इत्यर्थः / अन्यत्र मानयति मानः / दानं शानमिति द्यतेः शतेश्च वा वृत्तेर्वा // (11) यच्छुचो भृशाभीक्ष्ण्ययोः / [3 / 4 / 2 / 6 / ] भृशमत्यर्थम् / आभीक्ष्ण्यं पौन:पुन्यम् / तदर्थादरुचि शुचेस्तत्सादृश्यादेकाचो हलादेर्वादेर्यङ् स्यात् / भृशं पुनः पुनर्वा ज्वलति, जाज्वल्यते / पापच्यते / अनयोः किम् ? पच्यते / रुच्शुचः / भृशं रोचते, भृशं शोचते / एकाचः किम् ? भृशं जागति / हलादेः किम् ? भृशमीक्षते / ङित् तत्कार्यार्थः // __ (12) सूत्र्यसृमूत्र्यटोऽर्णोः / [3 / 4 / 27 / ] सूचेश्च तथानेकाजहलाद्यर्थम् / सूत्रं करोति णिञ्, सोसूत्र्यते / एवं मूत्रसुचेः / अस् / असास्यते / रु / अरार्यते / अट् / अटाट्यते / उर्णोनूयते // 2 // सूचेर्गतौ स्यात् कुटिलत्व एव गाल्लुपः सद्दशिचर्जभोदह / जपुश्चतो णिञ् कमृतो णिङीयङ् वायगुपूधूप्पणिविच्छिपन्भ्यः // 3 / 4 / 3 // वृत्तम् // (13) सूचेः / [3 / 4 / 3 / 1 / ] उक्तम् / (14) गतौ स्यात् कुटिलत्व एव / [3 / 4 / 3 / 2 / ] गत्यर्थात् कौटिल्य एव, न भृशाभीक्ष्ण्ये / कुटिलं कामति, चक्रम्यते / दन्द्रम्यते / कुटिलत्व एव किम् ? भृशं कामति / नियमार्थमिदम् // (15) गाल्लुपः सद्दशिचर्जभोदह्जपुः / [3 / 4 / 3 / 3 / ] गर्हितादेव लुपादेर्यङ् / गर्हितं लुम्पति, लोलुप्यते / यावज्जेगिल्यते / गादेव किम् ? पुनर्लुम्पति / गादेः लुपादि न साधनम् / जपति वृषलो मन्त्रम् // .. (16) चुतो णिञ् / [3 / 4 / 3 / 4 / ] चुत् प्रत्याहारार्थः / चुरादेः स्वार्थे णिञ् स्यात् / चोरयति / लुण्टयति / णिदात्वाद्यर्थः / जिदुभयपदार्थः / यच्चात्र डिचां विभाषितानां पाठः / स चुरादेणिजि किम् ? कल्पं सूचयति / चुराद्यन्ते हेतोः क्रियार्थादित्याद्युदाहृतम् // (17) कमृतो णिङीयङ्वा / [ 3 / 4 / 6 / 5 / ] कम् कान्तौ / ऋतु घृणास्पर्धयोः सूक्तः / आभ्यां क्रमेण णिङ् ईयङ् वा स्तः / कामयिता / कामिता 1 अचीकमत् / हेत्वणिञ् वा / अचीकमत / ऋतीयिता / अतिता // (18) अयगूपुधूप्पणिविच्छिपन्भ्यः / [3 / 4 / 3 / 6 / ] स्वार्थेऽतो वा यात् / रिद् यकादिप्रत्याहारार्थः / चर् / गोपायिता / गोप्ता / एवं पणिवत् / पणि स्तुत्यर्थः / किम् ? शतस्य पणिता // 3 // शेते मिद्ये प्राग्वच्यद्वेद्वीलृक् चलिट्याद्योंऽशोऽच् सन् / यङाद्याचो यिः सन्वर्ण्यः छिस्तिश्चेष्टः सुब्दाश्वांसः // 3 / 4 / 4 //