________________ 244 पञ्चग्रन्थी व्याकरणम् अचकलत् / अन्यत्रातः परत्वात् पूर्वमारैच् / अपीपटत् / त्वचं कृतं च गृह्णाति / त्वचयति / [कृतयति / ] नैकाचो लुक् / तूस्तानि निहन्ति, [नि]तूस्तयति / लोमान्यनुमाष्टि, अनुलोमयति / ङितस्तदर्थाः / भाण्डानि समाचिनोति सम्भाण्डयति / अङ्गानि सहस्तादीनि निरस्यति उत्क्षेपयति इत्यर्थे / अतिहस्तयते / पादयते / उत्पुच्छयते / चीवरं परिधत्ते सम्माटि वा / सञ्चीवरयते भिक्षुः / भाण्डमाचष्टे / भाण्डयति / उत्पुच्छयति / विमोक्षे पाशात् / पाशं विमोचयति / विपाशयति / रूपं समीक्षते पश्यति / निरूपयति / वस्त्रं समाच्छादयति / इति वर्णादि समाप्तौ // 134-135 // कूलादितो र्टा. [133] / कूलादेर्वा पातः तृतीयान्तात् / भूत्येव णिञ् / तत् कूलादिना दर्शयति / कूलैरनुगृह्णाति / अनुकूलयति / एवं संवर्मयति / उपश्लोकयति / अभिषेणयति / अवचूर्णयति / अन्यार्थे च तं लुक् च कृतः स भद्रूप् / भूत्यैव करोतीत्यादौ धात्वर्थे तमिति द्वितीयान्तात् कृतो णिञ् स्यात् तदन्यार्थे / भिन्नधात्वर्थे विवक्षिते श्रुतत्वात् क्वचिल्लुक् च स्यात् तत् / स इति पूर्वोऽकृदन्तवत् भूर्धातुः स्यात्, रप् द्वितीयादि कारकं च / देवस्य प्रतिष्ठां करोति, देवं प्रतिष्ठापयति / देवार्चनं समाचरति, देवमर्चयति / ब्राह्मणभोजनमनुतिष्ठति, ब्राह्मणं भोजयति / कंसवधं, [बलिबन्धं] सीताहरणं, राजागमनमाचष्टे, कंसं घातयति / बलिं बन्धयति / सीतां हारयति / राजानमागमयति / मृगरमणमाचष्टे, मृगान् रमयति / दृश्यत्वे इष्यते / अन्यत्र ग्रामे मृगरमणमाचष्टे / कालावधावङित् / तथैव किन्तु कालात्यन्तसंयोगे, अवधौ मर्यादायामाङ् इल्लुक् स्यात् / आरात्रि विवासमाचष्टे, रात्रि विवासयति / आ दिवसमगमनमधीते, दिवसं गमयति / अथापि चित्रे / तथैव, किन्तु आपिप्रां पिधात्वर्थे / चित्रे आश्वर्ये गम्यमाने / उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं संभावयते, तथा माहिष्मत्यां सूर्यमुद्गमयति / तथैव नक्षत्रयोगे ज्ञि / पुष्पयोगं जानाति / पुष्येण चन्द्रं योजयति / मघाभिर्वा / अन्यार्थे किम् ? व्याख्यानमाचष्टे, व्याख्यानयति / नै कृल्लुक् / व्याकरणं करोति / णिञ् च न / ओदनपाकं करोति / ओदनं पचयति / स्यादेव / कृः किम् ? व्याकरणस्य सूत्रं करोति, व्याकरणं सूत्रयति / प्राक्सम्बन्धः प्रत्ययान्तरे सति निवर्तते / व्याकरणस्य च करोतिना सामर्थ्यमस्तीति रन् लुग् न च / व्याकरणं व्याख्यानयति / दिशानयाऽन्येऽपि द्रष्टव्याः // 135 / / ___ भावादितोऽर्थस्येत्यादि / सुगमम् / अतङानिनः पूर्वे अदितः / चुरादित् / चुरादिगणोऽयम् / त् भूत् चुत् प्रत्याहारार्थः / आद्यन्तवृत्तद्वयवर्ज सप्तत्रिंशं शतम् [? वस्तुतस्तु, आद्यन्तवृत्तद्वयवर्ज चतुस्त्रिंशं शतं, तत्सहितं च षट्त्रिंशं शतम् // ] 136 // धातुवृत्तिः समाप्ता // (7) सहने तिजोऽनिट् / [3 / 4 / 2 / 2 / ] क्षान्तवृत्तेस्तिजः स्वार्थेऽतोऽनिट् सन् स्यात् / तितिक्षते / सहने किम् ? तेजनं तेजयति / नित् सन् यङित्यर्थः // (8) कितश्चिकित्सा / [3 / 4 / 2 / 3 / ] चिकित्साशब्दः [व्याधि-]प्रतीकारे विपूर्वः संशये वर्तते / तदर्थयोः कितः सन् / चिकित्सति व्याधिम् / विचिकित्सत्यर्थम् / अन्यत्र केतनं सङ्केतः // (9) बधगुपक्षिपेन / [ 3 / 4 / 2 / 4 / ] आभ्यामनिट् सन् स्यात्, क्षिपा निन्दा चेदर्थः / इति विवक्षार्थः / ई इति च वेरिकार्टी इ स्यात् / बीभत्सते / जुगुप्सते / क्षिपा किम् ? बधकः / गोपनम् //