________________ तृतीयोऽध्यायः चतुर्थः पादः 243 णि विशेष्यते / विशिष्यते / तृप प्रीणने / णिच् शप श्नु च / ली द्रवीकरणे / घृतं विलापयति / विलीनयति / गणपाठात् / ईर क्षेपणे / अन्ये खिद्गतौ च / ईरयति / ईरति / अदादौ च ईर्ते // 128 / / ___मी आङः परः सदश्च खिद्गतौ / सर्वत्र वा पक्षे शप् / गणपाठादन्यश्च तदर्थेऽपि / अन्यार्थेऽपि तु व्यावृत्तिः / माययति / मयति / मिमीषते / श्ना च / आसादयति / अनाङ् अगतो, सीदति, आसीदति / जुषः परितर्कणे / णिञ् शप् / तनु श्रद्धोपतापे / णिञ् शप् / तनित्वा / तान्त्वा अन्यत्र तनोति / तद्यते / ततः / कित् तु दैर्घ्य / प्रादेश्च दीर्घत्वे, आतानयति, [प्रातानयति,] वितनति, प्रतनति / कित् किम् ? तनोति / प्राप्तौ भुवस्तङ् / तानाश्च / भावयते / भवते / अन्यत्र भावयति / भवति / दृभादि सन्दर्भे / णिच् शप् / दृभी भये चान्ये / ईदिता दृच्च दृम्भो दृभितम् / अन्यत्र, दृभति / श्र श्नाति / आप्M लम्भने / णिञ् शप् / आपत् / अन्यत्र श्चुः // 129 / / - सूक्तः वचः वचने, सन्देशने, भाषणे च / वाचयति / वञ्चति / अवीवचत् / अवचत् / एवं वृजी वर्जने / जू जरणे. वयोहानौ / अणिञ् शप् / तथा वृणाति / वृक्ते / वृणक्ति / वृषादि सूक्तः / णिञ् शप् / वृषु वुषा / उदादित् / वृष्टं धर्षितम् / त्रा इत्येके / एवं छादने, अपवारणे, गर्भणे, मार्गणे, अन्वेषणे / णिञ् शप् / कथादि हिंसने / मन्मानौ मानने पूजायाम् / कठिरुक्तं विशोके / मृजु तादृक् शुद्धो / चूदी भृदी क्रमेण दीप्तौ भये // 130 // : तिरु उभयपदिनः पूर्वे / तङ् अतस्तङाना / मृष मर्षणे / अदन्तो वा / शुन्ध तादृक् शुद्धौ / वदार्चम् / वदने, अर्चने / मर्च धिच्छब्दे / व्यक्तः / हेतौ क्रियार्थाच्च / तत्र हेतौ हेतुकर्तृव्यापारार्थाद् धातोणिञ् / कुर्वन्तं प्रयुङ्क्ते / कारयति / पाचयति / भिक्षा वासयति / कारीषोऽग्निरध्यापयति // 131 // सुपस्तदर्थे / धात्वर्थे विवक्षिते सुबन्तात् णिञ् / तदर्थं गणकारो व्याचष्टे-सूत्रमित्यादि / सूत्रादीन् करोत्यर्थः / वेत्यन्यधात्वर्थे / सूत्रयति / [मुण्डयति / लवणयति / मिश्रयति / श्लक्ष्णयति / ] व्रतं करोत्येव / कथम् ? न तद्वेति प्रत्याख्येयं द्वधा / वृषलान्नं व्रतयति / नैव भुङ्क्ते / पयो व्रतयति / तदेव भुङ्क्ते / आचष्टे करोति च तान् वीप्सया सर्वाऽर्मः / पटुमाचष्टे करोति वा, पटयति / घटयति / सत्यापयति, इत्यादिः / तैस्तैः सर्वदाऽतिक्रामतीति / अतिहस्तयति / अत्यश्वयति, इत्यादिः / सत्यादेः आप् च सम्पादयति / [सत्यापयति / वेदापयति / अर्थापयति / ] आतामर्थादेकाजदन्तस्य प्रशस्यः स्वः / स्रापयति / स्थापयति / प्रापयति / क्रमेण श्वेत अश्व गालोडि आह्वर एभ्यः परे अश्व तर इत क एते लुक् स्यात् / णिञ् च / ङित् तङर्थम् / श्वेताश्वमाचष्टे, श्वेतयते / एवम् अश्वतरम् [आचष्टे], अश्वयते / गालोडितम् [आचष्टे], गालोडयते / आह्वरकम् [आचष्टे], आह्वरयते // 132 // वर्णादितमिति / वर्णादेर्द्वितीयान्तात् भूति अनैकधात्वर्थे णिञ् // 133 / / . गुह्णाति इत्यादिना तदेव दर्शयति / वर्णं गृह्णाति, वर्णयति / य इति / हलिकल्यो इ अ च स्याद् अतोऽग् लोपित्वात् सत्वकार्यं त्रक्ष्विति न स्यात् / हलि / आख्यत् / अजहत् /