________________ 242 पञ्चग्रन्थी व्याकरणम् किम् ? स्वादं वक्षत्यास्वादनेऽस्य, स्वादयति यवागूम् / अन्यस्त्वाह-आस्वादधातोः सकर्मकक्रियावचनादेव णिञ् / अन्यत्र व्यावृत्तिः / दल दलने विदारणे / पूरीश् शित् प्रीणने आप्यायने / रुजम् गित्, हिंसने / व्यक्तो // 115|| __पटादि चीवान्तं भाषायाम् / णिञ् स्वार्थे / पाटयतीत्यादि / अन्यत्र क्रमेण पटति / पुटति / लुट्यति, लोटते / पुष्यति / भञ्जति / पङ्क्ते / त्रस्यति / घटते / घटि कुशि लुजि नान्यत्र सन्ति / आलोकते / भनक्ति / नास्ति / वर्धते / नदति / कप्यति / गोपायति / लोठते / नास्ति / वर्तते / वर्हति / वल्हते / लङ्घति / दशति / बृंहति / विच्छति / धूपायति / चीवति / अन्ये त्वन्यत्रापठिताऽप्यत्र पाठाद् धातव एवेत्यर्थान्तरेष्वपि प्रत्ययान्तरेण प्रत्युदाहरन्ति / यथा कुशन्ति घटन्ति लुञ्जति / तर्कति, इत्यादि / सोऽप्यार्थनियमार्थोऽत्रैषां पाठः / स्वादः सूक्तः आस्वादने / स्वादयति / यवागूम् // 116 / / ... वाक्यप्रबन्धेऽत् / कथ अद् इत्यतोऽदन्ताः / कथ वाक्यप्रतिबन्धे / व्यक्तौ / पतयति खिद् वा / वेति / अथवा तवेति पाठः / खिद्गतौ / मुखसेवने चान्ये / महादि सूक्तः महध्वन ताक् पूजायां शब्दे / क्रमेणान्ये स्तैन्ये जनने परिहाणौ / खोटं चहः / तवेति खोटने क्षये / खोडेत्यन्ये / तित् तिङर्थः / चहस्तत्र परिकल्कने / द्वौ स्पृहायाम् // 117 / / भामादि सुगमम् / किन्तु कूटादि आमन्त्रणे स्युरिति / कूटाद्यर्थः / ढिन्तेर्वा सः / निवासः / ढिदाच्छादने // 118 // रहादि सुगमम् / अन्ते पषट् / टिद् अप्राद्यत्र / पषयति / टित् किम् ? प्रप्रषति // 119 // पल्पूलादि सुगमम् // 120 // अतङ् त्विति अतङानिनः पूर्वे / पदस्ख् खिद्गतौ / ङितोऽतः तङानार्थः / मृगङ् अन्वेषणे // 121 // संग्रामादि क्रमेण युद्धादौ // 122-123 // अञ्चादि व्यक्तम् / किन्तु प्रगाब्रवा पाठः // 124 // छेद छेदने / अंसादि व्यक्तम् / चित्र चित्रकर्मणि, दर्शने च // 125 / / गर्व माने / डिद् गर्व वोदित सम्बध्यते तङर्थः / स्तोम स्तुतौ / संसर्गेत्यादि प्रकटम् // 126 // जल वट / लजयति / वटयति / अर्थान्तरेऽत्रायम् / इदितौ / अन्ये लञ्जयति / अन्येऽत्र पाठाददन्ताः / वतो णिजिनन्ता आप् / लञ्जापयति / वर्ण वर्णक्रिया-विस्तारगुणवचनेषु / अङ्के अङ्कलक्षणे / अङ्ग पदलक्षणे / अन्यत्र अङ्गति // 127 // वैति कैश्चिद् युजादयश्चरादौ पठ्यन्ते / तित्यणिञ् अर्थे नान्यैरिति वार्थः / तन्मतेन दर्श्यते / युजु पृचः संयमने / योजयति / पर्चयति / शप् च / योजति / पर्चति / गणान्तरपाछात्, युज्यते / युनक्ति / पृणक्ति // शिषोंऽशे असर्वोपयोगे / णिञ् शप् श्नम् च / वेः परः विशेषे तैः शये /