________________ तृतीयोऽध्यायः चतुर्थः पादः 241 एव तादृशाः कमेण क्षरणे तेजने / नाद्यो समुच्छाये सान्त्वने / षान्त्व इत्यन्ये / रुट वृष रोषे चित् // 105 / / कीटादि जसुक्तः यन्त्रणे बन्धने / वर्णादि अनादरे / थौ [परे पुः पुथः] च पुस्तस्य समुच्चयार्थः / वर्ण चूर्ण जुड क्षेपे / सोऽप्यनादर एव / दिद् वा / वर्ण चूर्ण जुड इति / वर्धादि त्वन्तः कुट्टने च्छेदने // 10 // ___तिलादि जसुक्तः स्नेहने / चक्कादि पीडायाम् / श्वठादिशठखन्तम् / खिद्गतौ / शठन् नित् तिङर्थः / अर्क ईड तु त्वन्त ईडने स्तुतौ / दिवुन् देवने, उदित् नित् // 107 // गजादि / घि शब्दे / रुजादि गिद्धिंसने // 108 / / पुंस अभिमर्दने / बुधि षट्ट एतौ घाते हनने / पदा याथासंख्येन / पिडि पूल संघाते / वर्ण अत् नीले / रभि हर्षे / भिन्द्यादि ङित् क्षेपे / तुप स्वक्षनाशे / केचिदिति पृथक् / बलभृताविति भरणे / अतङ् अतङानिनः पूर्वे // 109 // ___मन्त्र्यादि सूक्तं मन्त्रणे तन्त्रणे कुटुम्बधारणे चिन्तने कुत्सने वञ्चने / उ निपातः / तर्ज भर्न्स तु त्वन्तः भर्त्सने / दिसिच् दसिः दशने चित् / दशि दर्शने च / निष्क तूण क्रमेण परिमाणे पूरणे / इह धातुपूरणे / ईदृशा गृ आद्याः क्वचिदर्थे स्युः / गृ ज्ञाने / यु जुगुप्सायाम् / मन स्तम्भे / विद वेदनाख्यानिवासेषु // 110 // वस्तगन्ध एतौ अर्दने / किक्कहिक्कम् गिद्धिंसने / स्यम वितर्के / व्यक्ताः / लल भ्रूण क्रमेण एतौ ईप्सायाम् आशंसायाम् / कूट पक्ष एतौ प्रतारणस्तुतौ / त्रुटदलौ छेदने आलम्भने / तड संहतौ सङ्घाते / कुड् सन्तापे / तङ्तङानिनः पूर्वे // 111 // चर्चादिपदानि क्रमेण पाठाद्यर्थेषु / वर्च पाठे चर्च पाठे अध्ययने, पर्यायानाह / मुच प्रयोज़ने / त्रस वारणे / अञ्चु विशेषणे / भज विश्राणने / अर्जप्रतियत्ने / ज्ञा नियोजने / जस ताडने / लिगि चित्रीकरणे / मुद संसर्गे / कपभूः द्वावप्येकं पदम् / अवकल्कने / च्यु हसने / वैचित्र्यार्थमित्थम् / चरकण क्रमेण चिन्ता च संशये निमीलने च // 112 // ___ मोक्षः तादृग् अशने / तसि भूषौ, आदन्त भूषायाम् / दूषोऽन्धसमर्हः तादृग् दूषणे तुच्छे पूजायाम् / शेषा व्यक्ताः // 113 // स्वादे आस्वादने रकादि / पशादि बन्धने / चट स्फुट तु स्फोटने / घट सङ्घ सङ्घाते / हिंसाश्च चटादयः / व्यक्तौ // 114 // __ आङ: पर: क्रन्दः सातत्येऽर्थे चुरादिः / आक्रन्दयति / अन्यत्र क्रन्दतीत्येके / अन्ये आङ: क्रन्दे स्वार्थे णिञ् / आक्रन्दति / अन्यस्त्वाह घुषो वर्तते आङ: परो घोषः क्रन्देऽर्थे चुरादिः / आघोषयति / प्रतियत्ननिकारयो ऋणाद् यती / यातयति छिद्रं पुत्रं वा [इति] वाच्ये / निरः परः / निर्यातयति / प्रतिददाति [इत्यर्थः] / अन्यत्र यतते / एवमन्यस्यापि निकारेऽर्थे उक्तिः / आस्वादस्तु सकर्मकात् णिञ् / त्वन्तादास्वादनेऽर्थे / आस्वादयति यवागूम् / अन्यत्र स्वादने भ्वादौ / आङ: पञ्च.-३१