________________ [ // अथ तृतीयाध्याये चतुर्थः पादः // ] .. . कण्ड्वादियक्क्यङ् च करोति शब्दान् क्विप् कर्तृवादाचरतीति गल्भात् / ङित्क्लीबहोडाडिसमोऽम्वतः क्यच् स्वाप्यात् सकाम्येच्छति सन्तु मो वा // 3 / 4 / 1 // वृत्तम्॥ (1) कण्ड्वादि यक्क्य ङ् च करोति शब्दान् / [3 / 4 / 1 / 1 / ] चकारोऽनेकत्र सम्बध्यते / कण्ड्वादि[भ्यो धातुभ्यः] च करोत्यर्थे यक् स्यात् / शब्दादीन् करोत्यर्थे क्यङ् च णिञ् च स्यात् / तथा करोत्यर्थे, क्वचिदन्यार्थे च / वृत्तार्यमाद्ये कण्डूषिरे मन्तुहणी नृसुड्यमः वेट्लाड्डिरो वल्गुमहीत्वरायसः / मेधोषसौ भिष्णभिषजः सुभूयस् रेखा च लेखा च लेलेले स्तः // 1 // अल्लुक् कुसुम्भसम्बरमगधारुणपम्पसारराणां तु गद्ग-। ददुःखसुखेषु च चरणतुरणभुरणसपराणाम् // 2 // कण्डूं करोति कण्डूतिः / अन्ये तु कण्ड्वादेर्यक् [पा. अ. 3 / 1 / 27; जै. 2 / 1 / 15] / कण्ड्वादि / यक् स्वार्थे / कण्डूया / कण्डूयिनम् / कण्डूतिः / कण्डूयति / [कण्डूयते / ] अस्य [कण्डूज, हणीज्, महीञ्, लाङ्] जितस्तिङ् ङितस्तङ् / वेट्लाट् / वेयते / [लायते / ] वेड्लाडते / वेट्यति / लाट्यति / अत्लुक् भान्तः कुसुम्भादीनाम् / कुसुम्भ्यति इत्यादि / आकृतिगणः / भरण भुरण इत्यादि / [अत्र] सत्रिवृत्तगाथाऽन्त्ये शब्दाभ्रशीकाकलहानटाद्या नीहारकोटासुदिनानि पोटा। सोटाद्गमादुदिनवैरमेघान् कम्वादि चित्रं ङि करोति चित्रे // 3 // नमस्तपोऽतद्वरिवश्च मुञ्चति बाष्पोष्मलालात् प्रथफेनधूमौ / . रोमन्थमाविर्भवतीति हत्वा डि कक्षकष्टाद् गहनाच्च सत्रतः // 4 // पापे क्रमे दुःखसुखे तु भुङ्क्ते सोढप्रतीपौ करुणाश्रुकृच्छ्रा-। ऽलीकांश्च तृपं कृपणं तथास्रं कर्तृभृशादेरपि हल्लुगच्छैः // 5 // भृशोत्सुकौ पण्डितशीघ्रमद्राः मन्दाण्डरौ नीलशुची च वध्रः / रेहत् तु शश्वच्चपलौ च वेहद् ओजश्च व!हरितौ नृषच्च / दुरुत्स्वभिभ्योऽपि मनोऽप्यतद् वा डा लोहितेभ्योऽप्सरओजसोः सः लुग्वान्विवादाचरतीति गाथा // 6 //