________________ तृतीयोऽध्यायः तृतीयः पादः (82) च्विः / [3 / 3 / 13 / 1 / ] तथान्त्यैर्योगे / शुक्लीकरोति, [शुक्लीस्यात्, शुक्लीभवती] वस्त्रम् / उदकीकरोति लवणम् / तथा भस्मीकरोति, [भस्मीस्यात्, भस्मी-भवति] || (83) तद्विकारादिह / [3 / 3 / 13 / 2 / ] अभूततद्भावे यदुक्तं तद् विकारवाचिनो द्रष्टव्यम् / तथोदाहृतम् / अन्ये त्विह भूतभावाभिविधीतराभावेऽपि च्चि: / घटीकरोति, [स्यात्, भवति / ] समीपीकरोति, [स्यात्, भवति / ] अन्तिकी च [करोति, स्यात्, भवति / ] तत्स्थ्यतच्छस्यम् // (84) व्याद्यचो डाऽव्यक्तानुवादात् / [ 3 / 3 / 13 / 3 / ] व्याद्यचोऽव्यक्तानुकरणभूतात् डा स्यादन्त्यैोंगे / पटपटाकरोति [स्यात्, भवति / ] दमदमास्यात् [भवति, करोति // ] (85) इलुगितौ त्वत् / [3 / 3 / 13 / 4 / ] अस्यैव अत् डि लुक् स्यादितौ परे / पटत् इति पटिति / झटिति करोति / द्व्याद्यचः किम् ? अदिति / अव्यक्तानुवादात् किम् ? जगदिति / इतौ किम् / पटदत्र / अत् किम् ? मरुदिति / डित्वं जस्त्वं मा भूत् / तुङा निवृत्यर्थ इतौ // (86) अच्च द्वित्वे / [3 / 3 / 13 / 5 / ] अस्यैव द्विर्वचनेऽत् कार्या अत्वलुक् वा स्यादितौ / पटत्पटदिति / पटत्पटिति / द्वित्वे किम् ? पटिति // (87) तलुग्नश्च / [3 / 3 / 13 / 6 / ] अस्यैव द्वित्वे डाप्रत्ययोऽन्तस्य इतौ च तलुक् स्यात् / पटपटाकरोति / [पटपटाभवति / पटपटास्यात् / ] पटत्पटिति // __(88) सुखादितः का स्यादानुलोम्यादिषु / [ 3 / 3 / 13 / 7 / ] सुखादेर्डा स्यात् कृञो योगे, आनुलोम्यादिष्वर्थेषु / इहापि वृत्ते स्यादानुलोम्येऽत्र सुखप्रियाभ्यां शूलाच्च पाकेऽशपथे तु शल्यात् / निष्कोषणे पायनप्रातिलोम्ये स्यान्निष्कुलात् स्यात् समयाच्च दुःखात् // 1 // निष्पत्रतोऽतिव्यथने सपत्रान् मद्राच्च भद्राद् वपने द्वितीयतृतीयशम्बाच्च कृषौ तु बीजात् तथैव संख्यादिगुणाद् गणोऽयम् // 2 // सुखा[करोति / प्रिया]करोति आनुलोम्ये आराध्यचित्तानुवर्तने / [आनुलोम्ये] किम् ? सुखं करोत्यौषधम् / एवं शूलाकरोति मांसम् / पाके किम् ? शूले करोति / सत्याकरोति // वणिग् भाण्डं, मयैतद् ग्राह्यमिति / तथ्यं करोति / अशपथे किम् ? सत्यं करोति // निष्कोषणाद्यर्थेऽक्रमेण निष्कुलादेः / निष्कुलाकरोति दाडिमम् / निर्बीजं [करोति] / समयाकरोति कालयापनं [करोति] / दुःखाकरोति चित्तपीडनं [करोति] / एषु किम् ? निष्कुलं [शत्रु, समयं, दु:खं कदन्नं] करोति / / * निष्पत्रा[करोति, सपत्रा] करोति मृगं व्याधः / परपार्श्वनिष्क्रान्ति] शरं सशरं च / अतिव्यथने किम् ? .. निष्पत्रं [सपत्रं] करोति वृक्षम् // मद्रा[करोति / भद्रा] करोति / वपने मङ्गल्यमुण्डने / [वपने] किम् ? मद्रं [भद्रं] करोति // द्वितीयादेः कृषौ द्वितीया[करोति / तृतीयाकरोति / शम्बा] करोति / द्विस्त्रिप्रतिलोमं बीजान् कर्षतीत्यर्थः / कृषौ किम् ? द्वितीयं करोति // संख्यादेर्गुणात् / तथैव कृषौ / द्विगुणा [करोति] / त्रिगुणाकरोति / द्विस्त्रिः कर्षति // 13 / / पाद एषः / एकादशः // . [इति श्रीबुद्धिसागराचार्यकृतपञ्चग्रन्थ्यां संस्कृताधिकारे तृतीयाध्याये तृतीयः, आदितो वैकादशः, पादः / ]