________________ 218 पञ्चग्रन्थी व्याकरणम् (75) विमुक्ततो गोषदतस्तु / [3 / 3 / 12 / 1 / ] तौ तथा / वृत्तमनुष्टुबाद्याषट्पाद्वितीये तु विमुक्तदेवासुरसोमपूषन् रक्षोसुरेडापरिसारकाः स्युः / वयोदशा? वसुमांस्तथाग्नाविष्णुर्महित्री उपसादकश्च // 1 // पत्नीवन्तु हविर्वांश्च सत्वन्नूपसदौ तथा / पतत्रि च मरुत्वांश्च वृत्रहत्यादिको गणः // 2 // गोषद्मातरिश्वानौ रक्षोहणाञ्जनप्रभूताः / देवीरापः कृशानु च देवीधीयप्रपूर्तकौ / अस्याखरेष्टः कृष्णो देवस्यत्वेच्चेत्ववृत् // 3 // वैमुक्तोऽनुवाकोऽध्यायो वा, इत्यादि // तथा गोषदकः / मातरिश्वकः / इत्यादि // (76) इवे वत् / [3 / 3 / 12 / 2 / ] इवार्थे सुपो वत् स्यात् / राजेव वर्तते, राजवत् ‘ना / प्रासादवत् कुट्यामास्ते / तद्वत् स्थूलः गोमान्, वा जडवत् // (77) देवादितस्त्रा डिरम् / [3 / 3 / 12 / 3 / ] ङिरमिति सप्तमी द्वितीयान्ताद् देवादेर्बहुलं त्रा स्यात् / देवेषु देवत्रा वसति / देवान् देवत्रा गच्छति / एवं, मनुष्यत्रा / पुरुषत्रा / मर्त्यत्रा / आकृतिगणः // (78) एतु देये सम्पत्कृञस्भू / [3 / 3 / 12 / 4 / ] एरिति चतुर्थ्यन्ताद् देयेऽर्थे सम्पदादिभिर्योगे त्रा स्यात् / देवाय देयं सम्पद्यते, देवत्रा सम्पद्यते / एवं करोति, स्यात्, भवति / / (79) अस्य वशेचसात् कित्तु / [ 3 / 3 / 12 / 5 / ] षष्ठ्यन्ताद् बशेऽधीनेऽर्थे, चकाराद् यथोक्तचतुर्थ्यन्ताच्च सम्पदादियोगे सात् स्यात् / स च कित् / अत् स इत्येतदर्थम् / राज्ञोऽधीनः राजसात् सम्पद्यते, [करोति, स्यात्, भवति / ] तथा देवाय देयं देवसात् सम्पद्यते, [करोति, स्यात्, भवति / (80) अभूतभावेऽभिविधीतरेऽत्यैः / [3 / 3 / 12 / 6 / ] अभिविधिरभिव्याप्तिरंशः / इतर: कात्य॑म् / तत्राभिविधीतर इति व्यस्तसमस्तार्थे अवस्था / ततोऽवस्थान्तरेणाभूते ऽस्य भावस्तदात्मता / तत्राभिविधावेकदेशेन प्रकृतिविकारेऽर्थे विकारवाचिनः सम्पदादियोगे सात् कित् स्यात् / अशुक्लः पटः, एकदेशेन शुक्लः सम्पद्यते [करोति, स्यात्, भवति], शुक्लसात् सम्पद्यते [करोति, स्यात्, भवति / ] अग्निसात् शस्त्रम् / उदकसात् लवणम् / अभूतभावे किम् ? शुक्लं करोति / नात्र प्रकृतिविवक्षिता / विकारात् किम् ? प्रकृतेर्मा भूत् / सुवर्णं कुण्डलीकरोति / सम्पदादिभिः किम् ? अशुक्लः शुक्लो जायते / अभूतभावस्य सम्पदा योगे किम् ? अदेवगृहे देवगृहे सम्पद्यते / आधारस्याभूततद्भाव आधेयस्य सम्पदादिभभिर्योगः // (81) इतरेऽन्त्यैः / [3 / 3 / 12 / 7 / ] कात्स्न्र्ये प्रकृतेः सर्वात्मना विकारेऽर्थे भूतभावेऽन्त्यैः सम्पद्वजैरस्कृञ्भूभिर्योगे विकार आत् कित् स्यात् / भस्मसात् करोति / एवं स्यात्, भवति / यत्र प्रकृतिः सर्वाप्येकदेशेन विक्रियते सोऽभिविधेः सर्वात्मना द्रव्यविकारे तु कात्य॑म् // 12 // च्चिस्तद्विकारादिह द्व्याद्यचो डाऽव्यक्तानुवादाड्ड्लुगितौ त्वदच्च / द्वित्त्वे तलुग्नश्च सुखादितः का स्यादानुलोम्यादिषु पाद एषः // 3 / 3 / 13 // वृत्तम् //