________________ तृतीयोऽध्यायः तृतीयः पादः 217 जखरः / महत्कण्ठविवरमस्याति खरः कच्छ्वा / उरन्तश्च / कच्छुरः / दन्तस्यान्त उरुन्नतेऽर्थे / उन्नता दन्ताः सन्त्यस्य, दन्तुरः / अऑसि सन्त्यस्य अर्शसः / लवणः ओदनः / स्वाङ्गात् हीनात् / काणः / खञ्जः / हीनात् किम् ? शिखावान् / चतुरः / उरसः / वर्णात् / शुक्लो गुणोऽस्यास्ति, शुक्लः पटः / पीतः / वर्णात् किम् ? रूपी / रूपिकः / रूपवान् / रसी / [रसिकः / रसवान् / ] गन्धी / [गन्धिकः / गन्धवान् / यत्राभिन्नरूपेण तद्वतोऽभिधानं तत्सर्वमिह द्रष्टव्यम् / नावयाज्ञिकः / [पाकयाज्ञिकः / ] निष्कादेः शतसहस्रात् / नैष्कशतिकः / एकगोपूर्वादत् / ऐकवस्त्रिकः / ऐकगविकः / ऐकविंशकः / समासान्तात् / गौशतिकः / गौलक्षिकः / अतः किम् ? गोविंशतिमान् / न च, बहुलत्वात् / एकद्रव्यवान् / गौशकटिकः / गोभिः क्षेत्रभूताभिस्तद्वान् / गोक्षेत्रवान् / क्वचिच्चैषां प्रयोगः / कृषिमत् क्षेत्रम् / रजस्वान् वायुः / तथा ऊषवान् घटः / मधुमान् वृक्षः / कुञ्जवान् गिरिः // 10 // वलोच्छरोऽवद्युद्रुतो म गोमिन् वाग्मी च पूज्येऽपर आलजाटौ / ऊर्णाहंशुभंभ्यः स्यु छः सूक्तसाम्नोलुंग्वानुवाकेऽध्ययनेऽणको स्तः // 3 / 3 / 11 // वृत्तम् // (67) वलोच्छरो ठञ् / [3 / 3 / 11 / 2 / ] इत्युक्तम् // (68) धुद्रुतो मः / [3 / 3 / 11 / 2 / ] तथा / घुमः / [द्रुमः / ] द्रु लघुः // (69) गोमिन् वाग्मी च पूज्ये / [ 3 / 3 / 11 / 3 / ] तथा पूज्येऽर्थे निपात्यते / भद्रबाहुगोमी / वाचो ग्मिन् / वाग्मी ना / पूज्ये किम् ? गोमान् // (70) अपर आलजाटौ / [ 3 / 3 / 11 / 4 / ] तथा वाचोऽपरे पूज्यान्निन्द्येऽर्थे आलच् आट एतौ स्तः / चिच्छन्दोऽर्थम / वाचालः / वाचाटः / बह्वसम्बद्धभाषकः // __(71) ऊर्णाहंशुभंभ्यः स्युः / [3 / 3 / 11 / 5 / ] तथाऽतो युः स्यात् / सित् पदसंज्ञार्थम् / ऊर्णायुः / अहंयुः / शुभंयुः, कल्याणवान् // (72) छः सूक्तसाम्नोः / [3 / 3 / 11 / 6 / ] वाच्ययोः प्रथमान्तात् तथा च्छः / अच्छावाक्शब्दोऽत्रास्ति, अच्छावाकीयं सूक्तम् / मित्रावरुणीयम् / यज्ञायज्ञीयम् / साम / अनुकरणप्रधानत्वादनेकपदादपि / अस्यवामीयम् / कयाषुभीयम् // (73) लुग्वाऽनुवाकेऽध्ययने / [3 / 3 / 11 / 7 / ] अनयोर्वाच्ययोर्मत्वर्थो च्छो लुग्वा स्यात् / अत एव छः / गर्दभाण्डशब्दोऽत्रास्ति, गर्दभाण्डः / अनुवाकोऽध्यायो वा, गर्दभाण्डीयः / दीर्घजीवितः / [दीर्घञ्जीवितीयः / ] पलितस्तम्भः / [पलितस्तम्भीयः / ] स्कम्भः // (74) अणको स्तः / [3 / 3 / 11 / 4 / ] तथा तयोः परगणाभ्यां क्रमेण // 11 // विमुक्ततो गोषदतस्त्विवेतद् देवादितस्त्रार्डिरमेर्तुदेये / / सम्पत्कृञस्भ्वस्य वशे च सात् कित्त्वभूतभावेऽभिविधीतरेऽत्यैः // 3 / 3 / 12 // वृत्तम् // पञ्च.-२८