________________ 216 पञ्चग्रन्थी व्याकरणम् बाहूरुपूर्वो बलधर्मशीली वर्णान्ततो नाम्नि तु दन्तहस्तः / मन्मान्तवर्णात् करतोऽतदंशाद् द्वन्द्वामनिन्द्यादपि जन्तुवृत्तेः // 2 // कत् स्यादतीसारपिशाचवाताद् देशे तमालोत्पलपद्मपुष्कराः / मण्डूकशालूकनडाः करीषः बिसं मृणालं विहगः कपित्थः // 3 // . . कर्दमकुमुदवयाशाः हिरण्यशिरीषी गणः / कृषिभ्रातृपरिवत्पुत्रोत्सङ्गाः दन्तशिखा श्रुतिरजो वृच्च // 4 // सुखप्रतीपीत्यादि / हलमालौ निन्द्येर्थे / हली [माली] दल इति वा पाठ: / दली / सर्वपूर्वात् / सर्वबीजी / सर्वधनी / सर्वकेशी / शीली / इनपूरणान्ताद्वयश्चेद् गम्यते / पञ्चमो मासः, संवत्सरो वाऽस्यास्ति / पञ्चमी वालः / दशमिनावुष्ट्र: / वयः किम् ? पञ्चमवान् ग्रामरागः / बाहुऊरुपूर्वो बलः / बाहुबली / ऊरुबली / धर्माद्यन्तात् / साधुधर्मी / धर्मशीली / ब्राह्मणवर्णी / नाम्नि दन्तादेः / दन्ती / [हस्ती] करी च गजः / मनु एतदन्तात् / प्रथिमिनी स्त्री / दामिनी / सोमिनी / होमिनी / तथा वर्णी ब्रह्मचारी / नाम्नि किम् ? दन्तवान् / द्वन्द्वाद् आमादिति / रोगान्निद्याच्च जन्तुवृत्तेः / प्राणिस्थादित्यर्थः / अतदंशाद् अप्राण्यङ्गात् / अप्यनुकर्षार्थः / द्वन्द्वात् / कटकवलयी / शङ्खनूपुरणी / रोगात् / कुष्टी / ज्वरी / निन्द्यात् / ककुदावर्ती / काकतालुकी / जन्तुस्थात् किम् ? पुष्पफलवान् वृक्षः / अतदंशात् किम् ? स्तनकेशवती / अतः किम् ? चित्रकल टिकावती / अतिसारादेः / इनि / कगागमश्च / अतिसारकी / [पिशाचकी / वातकी / ] देशेऽर्थेऽतः / तमालिनी / पुष्करिणी / देशे किम् ? पुष्करवान् हस्ती / यावच्छिरीषी // (64) वलितुण्डि वट्याः भः कंशमः स्यात् / [3 / 3 / 10 / 4 / ] भः / वलिभः तुण्डिभः / वटिभः / कम्भः / शम्भः // (65) ततियुस्तुयस्बाः / [ 3 / 3 / 10 / 5 / ] तथाऽऽभ्यां स्युः / कन्तः / [शन्तः / ] कन्तिः / [शन्तिः / ] कंयुः / [शंयुः / ] कन्तुः / [शन्तुः / ] कंयः [शंयः / ] कम्बः [शम्बः] सित् पदसंज्ञार्थः // (66) कृष्यूषतोऽर्शोनवयज्ञतोऽपि / [3 / 3 / 10 / 6 / ] जसन्त द्वन्द्वात् तथा तौ गणचतुष्टयात् क्रमेण भावतो वल अत् ठञ् स्युः / कृष्या युक्तः, कृषीवलः / वले दीर्घः / रजस्वला स्त्री // त्रितये त्रयः स्युः श्लोकाः - ऊषाखमुष्कपाण्डुभ्यो मुखकुञ्जनगात् पशोः / मधुपांशुसुखे कथ्रा उदन्तस्योत्लते गणः // 1 / / अर्थो लवणतुण्डामं जटाऽभ्रपलिताधमाः / स्वाङ्गाद्धीनाच्चतुरो रोवर्णादुर्णाद् घटादिवृत् // 2 // नवयज्ञो भवेदेकः पाकयज्ञस्तथापरः / निष्कादेः शतसहस्रादेरेकगोपूर्वतो गणः // 3 //