________________ 21 तृतीयोऽध्यायः तृतीयः पादः (56) केशादितो वः / [3 / 3 / 9 / 3 / ] तथा / मतुश्च / इहापि आर्या केशहिरण्यकुमाराः बिम्बकुररौ मणीष्टके / राजीगाण्डजकात् संज्ञायामर्णस इच्चाकृतिगणोऽयम् // 1 // केशवः / व्रीह्यादौ च / केशो / [केशिकः / केशवान् / ] गाण्ड्यजकात् संज्ञायाम् / गाण्डिवं गाण्डीवं वा / अजकवं [धनुः / ] अर्णसोऽन्त इत् लुक् च / अर्णवः // (57) मरुतस्त पर्वणः / [3 / 3 / 9 / 4 / ] तथाऽऽभ्यां त स्यात् / मतुश्च / मरुतः / पर्वतः / [मरुत्वान् / पर्ववान् // ] (58) मेधाद्रथाद् वेरः / [3 / 3 / 9 / 5 / ] तथा / इर वा / यथाप्राप्तं वा / मेधिरः / मेधावान् / मेधावी / रथिरः / रथवान् / रथी // (59) विनस्त्रजाद्यमायातः / [3 / 3 / 9 / 6 / ] मत्वर्थे विन् वा स्याद् असन्तसज्रा, आद्य इत्यनन्तरसूत्रे / मेधाशब्दः / माया एभ्यः / यशस्वी / यशस्वान् / तपस्वी / [तपस्वान् / ] स्रग्वी / [स्रग्वान् / ] मेधावी / [मेधावान् / मेधिरः / ] मायावी / [मायावान् / ] मायी // (60) फलाबहमलादिन / [3 / 3 / 9 / 7 / ] तथा वा / शृङ्गाच्च / फलिनो वृक्षः, फली / [फलवान् / / बहिणः [बी / ] बर्हवान् / मलिनः / [मली / मलवान् / ] मलीमसश्च / शृङ्गिणः / [शृङ्गी / शृङ्गवान् // ] (61) आरकः / [3 / 3 / 9 / 8 / ] उत्तरार्थः // 9 // शृङ्गाच्च वृन्दाद्धिमनिद्रतो यालू इन् सुखादेर्वलितुण्डिवट्याः भः कंशमः स्यात् ततियुस्तुयस्बाः कृष्यूषतोऽर्शोनवयज्ञतोऽपि // 3 / 3 / 10 // (61) शृङ्गाच्च वृन्दात् / [ 3 / 3 / 10 / 1 / ] तथा आरकः स्यात् / शृङ्गारकः / वृन्दारकः // .. _ (62) हिमनिद्रतो यालू / [3 / 3 / 10 / 2 / ] एतदादिभ्यां तथा य आलु एतौ वा स्तः / द्वन्द्वैकत्वान्निद्राशब्दो हुस्वः / श्लोकोऽत्रार्ध: हिमाद् गुणात् तथा रूपो[ष्णतृप्रेभ्य आहतात् / कृपाहृदयशस्ताच्च // 1 // हिम्यः पर्वतः / ] रूप्यो गौः / अनयोः किम् / रूपवान् / एवं निद्रालुः / निद्रावान् / [रूपालु / रूपवान् / उष्णालु / तृपालु / कृपालु / हृदयालु I] स्पृहयालु / इत्यादि // (63) इन् सुखादेः ] [ 3 / 3 / 10 / 3 / ] तथेनेव बहुलम् / सूत्रं तथा कृष्यादौ वृत्तत्रयाः - सुखप्रतीपौ कृपणास्रसोढाः कृच्छ्राम्रदुःखं करुणा च तिप्रम् / अलीकशीहूं हलमालनिन्द्ये सर्वादिशीलानि टितो वयश्चेत् // 1 //