________________ 214 पञ्चग्रन्थी व्याकरणम् वली न ठः // सिध्मलः / यथासंख्यं वत्सांसाभ्यां स्नेहे बले नित्यं चेष्यते / वत्सलो गौः, स्नेहवान् / अंसलो ना बलवान् / अन्यत्र वत्सादनी गौः / अंसवान् दुर्बलः / पर्णलः / स्वाङ्गादिति प्राण्यङ्गादाकारान्तात् / चूडालः / जटालः / प्राणि किम् ? शिखावान् प्रदीपः / अङ्गं किम् ? इच्छावान् / आत: किम ? हस्तवान् / इचामतोऽनयोः / धमनीलः / पार्णीलः / धमनिवान् / [पाणिवान् / ] डित ऊलडन्तः स्याल्ललाटादीनाम् / ललाटूलः / [दन्तूलः / बलूलः / वातूलः / ] क्षद्रजन्तोः / यकालः / मक्षिकालः / उपतापहेतोः / विचचिकालः / मुर्छालः / घटादे निन्द्येऽर्थे / घटालः / [जटालः कालालः / गडालः / ] प्रज्ञालः / [प्रज्ञिलः / प्रज्ञावान् / प्राज्ञः / ]. पांसुलः // 6 // लोमश इत्यादि |7|| पामनः / शाकीपलाल्याः इनान्तः / शाकिनम् / [पलालिनम् / ] अङ्गात् शुभकल्याणेऽर्थे / अङ्गनः / विष्वजः सत्कः परोऽच् / परपदमकृत्सन्धीत्यर्थः, इल्लुक् स्यात् / विषुणम् / लक्ष्याऽचान्तः कड् च उ च / लक्ष्मणः / कल्हणः // 8 // ठेन्द्व्याद्यचोऽतोऽस्य न वेति व्रीहितः केशादितो वो मरुतस्तपर्वणः / . ... . मेधारथाद्वेर विनस्स्रजाघमायातः फलाबर्हमलादिनारकः // 3 / 3 / 9 // वृत्तम् // (54) ठेन्द्व्यायचोऽतोस्य न वेति / [3 / 3 / 9 / 1 / ] द्व्याद्यचोऽनेकाचोऽदन्तस्येति तदस्यास्तीत्यर्थे ठइनौ स्तः, मतुश्च / न वेति बहुलार्थे / दण्डोऽस्यास्ति दण्डिकः / दण्डी / दण्डवान् / व्याद्यचः / किम् ? श्ववान् / अतः किम् ? बुद्धिमान् / अस्य किम् ? दण्डवती शाला / बहुलार्थोऽयम् / घणाद्यतान्न तौ पाकस्नेहे शब्दचयस्वनात् / स्तो भोगतरहारेभ्यः संयमाद् वैजवादितः / जाते ऽतण्डुलादिभ्यो नाकार्यादेः कृतोऽपि तौ // 1 // षट्पदी // घणादिप्रत्ययान्तात् पाकादेः न तौ ठेनौ / पाकवान् / [स्नेहवान् / शब्दवान् / चयवान् / स्वनवान् / ] स्तो घणाद्यन्तादपि भोगादेः / भौगिकः / भोगी / भोगवान् / इत्यादि / जातेन तौ / सिंहवान् / व्याघ्रवान् / अतण्डुलादिभ्यः किम् ? तण्डुलिक / [रसिकः / रूपिकः / कृत् पूर्वाचार्यसंज्ञा / कृदन्तादपि कार्यादिवजितान्न तौ / कारकवान् / पाचकवान् / द्रव्यवान् / धनवान् / अकार्यादेः किम् ? कार्टी / [हारीं / तण्डुली / ] धनादुत्तमणे / धनी / इत्यादि // (55) व्रीहितः / [3 / 3 / 9 / 2 / ] व्रीह्यादेः [दन्तस्य च] तस्यास्ति [इत्यर्थे] ठेनौ मतुश्च स्युः / पुगस्येति निवृत्त्यर्थः / इहानुष्टुप् - व्रीहिशीर्षाच्च मायाया अर्थार्थान्तादसन्निधौ / तुन्दत्केसमाषेभ्य एवमाद्याकृतिगणः // 1 // व्रीहिकः / [शीर्षिक: / मायिकः / ] अर्थतदन्तादसंनिहितेऽर्थे / अर्थी [प्रत्यर्थी / ] ध्यानार्थी / असंनिधौ किम् ? अर्थवान् / तुन्दत् प्रत्याहारः / तुन्दी इत्याद्युक्तम् / किन्तु तत्र व्रीहेरर्थादेव / शालिलः / अत्र शब्दार्थाभ्याम् / शाली / [शालिकः / ] शालिमान् //