________________ तृतीयोऽध्यायः तृतीयः पादः 213 (52) काण्डाण्डभाण्डात् स च ईर / [3 / 3 / 8 / 2 / ] मत्वर्थेऽत इर: स्यात् / स च मतुः / काण्डीरः / [अण्डीरः / भाण्डीरः / ] काण्डवान् // (53) प्रज्ञाज्योत्स्नाजटानौबलसिध्मलोमपामादितो णाणिलेठेन्लशाः नः / [3 / 3 / 8 / 3 / ] गणेभ्योऽष्टभ्यः क्रमणे मत्वर्थेऽणाद्याष्टौ स्युः / मतुश्च / एषु च पञ्चपादौ स्याद् दोधकं पञ्चपदी च वृत्तम् - प्रज्ञार्चयाद्ये सहवृत्ति श्राद्धे ज्योत्स्नातमिस्र त विपादिका स्यात् / तपः सहस्र नखरं विसर्पः लुक् शर्करा वा सिकता च देशे / स्यात् कुण्डलं कौतुप पञ्चपाद् वृत् // 1 // जटाघटापिच्छसचोऽपि कद्रः प्रज्ञोदकोरो ध्रुवकावफेनः / तुन्दोदरव्रीहिपिचण्डवृद्धौ स्वाङ्गाद्यवश्यादथ पञ्चपादवृत् // 2 // तोकरणं च खदा च कुमारी वृद्धनपूलशिखाश्च बलाका-। ऽऽयामशिखाचलयामपताकोत्साहनडा उदवासकपी स्तः // 3 // व्यायाममालावलमेखलाः स्युः वीणा च संज्ञा वडवाऽष्टकाः स्युः / अरोहकर्मन्परिणाहचर्मन् सहस्रचर्मन्नवरोहणानि / पर्णाङ्गतुम्बादलवीभमत्र // 4 // सिध्मोदके फेनहनू च मांसः निष्पावनाभी मणिसक्तुजीवाः / वत्सांसतः स्नेहबले च वर्णः स्वाङ्गादुलः स्याद्धमनेश्च पाणैः // 5 // ललाटदन्ताद् बलवाततो द्रः स्यात् क्षुद्रजन्तोरु पतापहेतोः / घटाजटाकालगडोस्तु निन्द्ये प्रज्ञा च पांसुश्च गणाद् विवृत्तेः // 6 // लोमन्मुनी बभ्रुहरी स्रुचश्च रोमन्तरू वल्गुकपी गणोऽयम् / पामन् च श्लेष्मन् वलिसष्पिसामन्शाकीपलाल्या इव हेमवामन् / अङ्गाच्छुभे विष्वज इत्परोऽच्च लक्ष्म्याऽकड् च उ च षट्पदीयम् // 7 // प्रज्ञा भ्यां सहवृत्तिश्राद्धे स्त आद्ये गणो गण आकृत्यर्थः / प्रज्ञा स्त्री / प्रज्ञावान् / मतुः सर्वेषु / ज्योत्स्नस्त्री / असो विन्मुक्ते / तापसः / तपस्वी / तपस्वान् / साहस्रः / बलादाविन् च / सहस्री / सहस्रवान् / नादन्ता ठः / शर्कराः सिकता च / देशे वा / व्यचसत् प्रत्याहारार्थाः / अतोऽल्लुक् च वा / शार्करः / [सैकतः / ] शर्करावान् / [सिकतावान् / ] शर्करादेशः प्राग्वल्लिङ्गसंख्ये / स च जटादौ च / शर्करिलो देशः / [सिकतिलो देशः / ] कुतुपादणि, कौतुपः / उक्तश्छन्दोऽर्थम् // 1 // जटिलः स तु उदाहृतः / फेनसिध्मादौ च / फेनिलः / फेनलः / तुन्दादि च वृत्पर्यन्तः तुन्दत् प्रत्याहारः / सव्रीह्यादौ च तुन्दिलः / तुन्दिकः / तुन्दी / वृद्धौ सत्यां स्वाङ्गात् / अण्डा वृद्धाः सन्त्यस्य, अण्डिलः / [अण्डिकः / अण्डी / अण्डवान् / ] नासिलः / [नासिकः / नासी / नासावान् / ] शुण्डिलः / [शुण्डिकः / शुण्डी / शुण्डावान् / ] नाविकः / [नौमान् //