________________ 212 पञ्चग्रन्थी व्याकरणम् __(49) ॐ मत्वरिस्तीति / [ 3 / 377 / ] अस्य [अस्मिन्] वाऽस्तीत्यर्थे प्रथमान्तान्मतुः स्यात् / गावोऽस्य सन्ति, गोमान् / श्रीपर्णी अस्मिन्नस्ति, श्रीपणीमान् पर्वतः / लट् किम् ? भूतभाविनीभिर्गोमान् / इतिशब्दो लौकिकविवक्षानियमार्थः // भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने / संसर्गेऽस्तिविवक्षायां मत्वादयो भवन्त्यमी // 1 // [भूम्नि] गोमान् / [निन्दायां] उदङ्गिणी कन्या / [प्रशंसायां] रूपवान् / [नित्ययोगे] कण्टकिनो वृक्षाः / [अतिशायने] गुणवान् / [संसर्गे] दण्डी / शुक्लो गुणोऽस्यास्तीति शुक्ल: पटः / पीतः / इत्यर्थ आदौ वर्णपाठात् न लुग्वाच्यः / रसादेस्त्वत एव रसावान्, रूपवान् / मतुरेवेति नियमोऽप्युपयुक्तः / रसी रसिकः, रसवान् / रूपी, रूपिक: रूपवान् / गन्धी, गन्धिकः, गन्धवान् इत्यादिदर्शनात् / अद्रव्यवाचिजातेः पृथग्दृष्टेः, गोजातिरस्यास्ति गोमानिति न स्यात् / जातिमतो गोरन्यस्याभावाद् गुणवतः पटस्येव पिण्डादेः स्वकृतनाम्नः प्रतिपत्तुमशक्तिः / (50) उदन्वदादि / [ 3 / 378 / ] तदर्थमतोः कृतघाद्यादेशो निपात्यते / इह षट्पात्उदन्वदष्ठीवदृषा रुमण्वान् ज्योत्स्नातमिस्त्रे च मलीमसः क-। क्षीवन्तु चक्री च तु आमयावी जर्जश्वञ्जर्जश्वलस्वामिनीशे / चर्मण्वती नाम्नि मतोः सुराज्ये राजन्वदित्यादि तु षट्पदीयम् // 1 // नाम्नि सर्वत्र / उदकमत्रास्ति उदन्वान् उदधिः / अष्ठीवान् / चक्रीवान् गर्दभः / रुमण्वान् पर्वतः / ज्योतिस्तमश्चास्ति, ज्योत्स्ना चन्द्रप्रभा / तमिस्रा रात्रिः / तमिस्रः पक्षः / मलीमस: मलवान् / कक्षीवान् नाम ऋषिः / विनि दीर्घत्वम् / आमयावी / जर्जरजर्क वाऽस्याति जर्जश्वन्, जर्जश्वलः / स्वामिन ईश्वरेऽर्थे / चर्मण्वती नदी / नाम्नि मतोर्वः च स्यात् पचादेः / कपीवती / मणीवती / अत्रत्योप्यपवादे विधिः / पाशानासन्दीवान् / सौराज्येऽर्थे राजन्वान् / राजन्वती पृथ्वी / नाम्नि किम् ? उदकवान् / अस्थिवान् / लवणवान् / ज्योतिष्मान् / तमस्वती गुहा / मलवान् / कल्कवान् / चक्रवान् / आमयी / उग्र्वान् / अनिशोऽश्ववान् / चर्मवान् / असौराज्ये राजवान् // 7 // मोपान्तरुष्मादयवादि मो वः काण्डाण्डभाण्डात् स च ईर प्रज्ञाज्योत्स्नाजटानौबलसिध्मलोमपामादितो णाणिलेठेन्लशाः नः // 3 // 38 // वृत्तम् // (51) मोपान्तरुष्मादयवादिमो वः / [3 / 3 / 8 / 1 / ] मकार अवर्णोपान्ताद् झयम्, अवर्णान्ताज्झयोऽयवादेमतोर्मः वः स्यात् / दाडिमीवान् / अहर्वान् / झयः / अग्निचिन्वान् / मात् / इदंवान् / किंवान् / वृक्षवान् / शालावान् / अयवादेः किम् ? श्लोकोऽत्र यवकृम्यूमिभूमिभ्यः ककृत्पाशेक्षुशिम्बितः / बन्धुबिन्दुद्रुकान्तिभ्यश्चारोश्चेत्याकृतिगणः // 1 // आत् / यवमान् / मुपान्तात् / कृमिमान् / [ऊर्मिमान् / भूमिमान् / ] झयः / ककुमान् / पूर्वेण नाम्नि / पाशामान् / इक्षुमतीत्यादि //