________________ तृतीयोऽध्यायः तृतीयः पादः 211 खारी / अनुकामयते, अनुकामः | उन्माना इत्यर्थे उक्तः / पार्वाभ्यभीरिति / अभेः किम् ? दीर्घत्वं निपातनात् / पार्श्वेन कमितान्विच्छतीत्यर्थे पार्श्वकः / अप्रगुणेन पथा अर्थान् अन्विच्छतीत्यर्थः / अभिकामयते अभिकः / अभीकः / पुनरुष्णमर्थान्तरार्थम् / उष्णं शीतं यथा भवत्येवं कारीत्यर्थे, उष्णको दक्षः / शीतकोऽलसः // __(42) इहाभिधान्नम् / [3 / 3 / 6 / 8 / ] प्रथमान्तात् प्रायोऽन्नमस्मिन्नित्यर्थे कः स्यात्, अभिधा संज्ञा चेत् / गुडापूपाः प्रायोन्नमस्यां पौर्णमास्यां, गुडापूपिका / तिलापूपिका / कृसरिका / त्रिपुटिका // 6 // कुल्माषतोऽणिद्वटकोऽचिंतादेः र्टा श्राद्धमिन्ठौ पुनरद्य भुक्तम् / नाश्योऽन्यक्षेत्रे घ इतीन्द्रियं ? मत्वडिरस्तीति उदन्वदादि // 3 // 37 // वृत्तम् // (43) कुल्माषतोऽण् / [3 / 3 / 7 / 1 / ] तथा / कौल्माषी पौर्णमासी // (44) इद्वटकः / [3 / 37 / 2 / ] तथा / वटकिनी स्यात् // (45) अर्चितादेः र्टा / [3 / 37 / 3 / ] प्रथमान्ताद् अर्चितादे: टेंति तृतीयार्थे इन् स्यात् / आर्या च वृत्ते इह च अर्चितपरिकल्पिताभ्यां निपठितगणितात् तथानुगणिताच्च / अनुपठितनिकथिताभ्यां व्याकुलितादेश्च गाथेयम् // 1 // पूर्वात् सपूर्वादवधारिताच्चान्वेष्टा च द्रष्टाऽनुपदी च साक्षी / निराकृत्तो [पकृताच्च] गृहीतात् संरक्षितेष्टादवकीर्णपूर्तात् // 2 // आसेविताधीतश्रुतोपदेशादितायुक्ततः संकल्पिताऽवकल्पितात् / आम्नाततो व्याकुलितादुपाकृतात् स्यात् पर्यनो रक्षितयुक्ततोऽपि वृत् // 3|| * अचितोऽनेन, अचिती देवे गुरौ वा / पूर्वात् / पूर्वकृतमनेन भुक्तं पीतमिति वा पूर्वी / सपूर्वात् / कृतं पूर्वमनेन कृतपूर्वी कटम् / भुक्तपूर्वी ओदनम् / क्रमेण अनुपदी अन्वेष्टा चेत्, साक्षी गवादीनां द्रष्टा चेत् / नाम्नोऽन्यत्र / साक्षाद्दष्टा / पूर्ती श्राद्धे / आसेविती क्रियायाम् / अधीती व्याकरणे / उपाकृतात् उपकृती मित्रे / एवं पर्यनोः क्रमेण / परिरक्षिती / अनुयुक्ती // (46) श्राद्धमिन्ठौ पुनरद्य भुक्तम् / [3 / 3 / 7 / 4 / ] श्राद्धमनेनाद्य भुक्तमित्यर्थे इन्ठौ स्तः / श्राद्धी / श्राद्धिकः // ___(47) नाश्योऽन्यक्षेत्रे घः / [3 / 375 / ] ड्यन्तात् क्षेत्राद् घः स्याद् अन्यक्षेत्रे नाश्यः, चिकित्स्य इत्यर्थे / क्षे लघुः / क्षेत्रियो व्याधिः, यो जन्मान्तराङ्गे नाश्यः / क्षेत्रियं विषं, संक्राम्यान्ययोगे नाश्यम् / क्षेत्रियाणि तृणानि, सस्यार्थे क्षेत्रे जातानि विनाश्यानि / क्षेत्रियः पारदारिकः / / ' (48) इतीन्द्रियम् / [3 / 3 / 7 / 6 / ] इन्द्र आत्माऽतो घो निपात्यते / इन्द्रस्य लिङ्गम्, इन्द्रेण दृष्टं, सृष्टं, जुष्टं, दत्तं वेत्यर्थः //