________________ 210 पञ्चग्रन्थी व्याकरणम् [पुत्रपौत्रीणः / परोवरीणः / ] अत्यन्तादीन् गामीति, अत्यन्तीनः / [अत्यन्तकामीनः / ] तदिति शैषिकवत् / अवारीणः / [पारीणः / अवारपारीणः / ] आशिता गावोऽत्र, आशितङ्गः, निपातनात् / ततोऽद्यलाच्च स्वार्थे आशितम् / गवीनमरण्यम् / राजाधीनः अनुगुः / अलङ्गामीतीष्यते / अनुगवीनो गोपालः / ग्वा लघुः / आ गोप्रदानात् कर्म करोतीति, आगवीनः कर्मकरः / अलं कर्मणे / अलं पुरुषाय / न सन्त्यत्र षडक्षाण्यस्य, अषडक्षं, ततः स्वार्थे तद्धितार्थवृत्तितश्च / अलंकार्मीणो ना / [अलम्पौरुषीणो ना I] षडक्षीणो मन्त्रः / समांसमां विजायते, समांसमीना गौर्वडवा च / अद्य श्वो वा विजायते भवति वा, अद्यश्वीनो [गौः] / (37) गामभ्यमित्रं छ / [3 / 3 / 6 / 3 / ] अभ्यमित्रमलंगामीत्यर्थे छ स्यात् / अभ्यमित्रीयः / / (38) य च / [3 / 3 / 6 / 4 / ] ख च तथा / अभ्यमित्र्यः / अभ्यमित्रीणः // (39) अध्वनः / [3 / 3 / 65 / ] यखौ तथा / अध्वन्यः / अध्वनीनः // (40) र्टाऽयः शूलदण्डाजिन ठञ् तु कामी / [3 / 3 / 6 / 6 / ] टेंति अयःशूलादिना [तृतीयासम-]र्थात् कामी अन्विच्छतीत्यर्थे ठञ् स्यात् / आय:शूलिकः / राभसिक इत्यर्थः / दाण्डाजिनिकः / दाम्भिक इत्यर्थः // (41) प्रायो धनादेः कः / [ 3 / 3 / 67 / ] स्यात् / प्रायो बहुलार्थे / अत्र गाथे कामो धने हिरण्ये च अंशं हारी नवोद्धृतः / तन्त्रात् सिद् ग्रामणी सोऽस्य कार्यकारणतो ज्वरे / शृङ्खलं बन्धनं चोष्ट्रे संज्ञायां ब्रह्मणोष्णितः // 1 // स्वाङ्गेषु सक्तौदरिकोऽलसे च सस्येन जातो वनपे तु. वज्रः / पादे जयादौ पथकोऽध्यनूदः पार्वाभ्यभीभिः कमितोष्णशीलात् // 2 // धने [हिरण्ये] कामो वाञ्छेत्यर्थे / धनकः / [हिरण्यक: / ] अस्य अंशं हरत्यवश्यम्, अंशको दायादः / तन्त्रको नवोद्धतः पटः / स इति प्रथमान्तादस्य ग्रामणीरित्यर्थे, सिच्छः स्याद् अक् सपूगादित्यर्थः / देवदत्तो ग्रामणीरेषां, देवदत्तकाः / यज्ञदत्तकाः / कार्यकारणभूतात् प्रथमान्ताद् अस्येत्यर्थे ज्वरे वाच्ये / शीतं कायमस्य शीतकः / उष्णको ज्वरः / कारणाद् द्वितीयो दिवसो हेतुरस्य द्वितीयकः / तृतीयकः / विषपुष्पाणि हेतुरस्य, विषपुष्पकः / कोशपुष्पकः / ज्वर: किम् ? द्वितीयो दिवसो हेतुरस्य भोजनस्य / शृङ्खलं काष्ठमयं बन्धनमस्योष्ट्रस्य, शृंखलक: करभः / नाम्नि / ब्राह्मणको देशः / उष्णिका, अल्पान्ना यवागूः / नदी वा / स्वाङ्गेषु सक्त इत्यर्थे / केशेषु सक्तः, केशकः / दन्तकः / तद्रचनाप्रतिबद्धः / सुप् समुदायार्थम् / दन्तौष्ठकः / नखकेशकः / उदरे सक्तोऽलस एव, औदरिको निपात्यते / तद्भरणनिष्ठोऽविजिगीषुरित्यर्थः / अलसः किम् ? उदरकः / सस्येन जातः, सस्यकः खड्गः / सस्यको मणिः / सर्वतः सारेण निष्पन्न इत्यर्थः / नयादौ विज्ञ इत्यर्थे नयकः / [पादकः / जयकः / आद्याकृत्यर्थः / एवं पथिकः / अधि-अनु-उदोः बहुलार्थे / अधिरूढो वृद्ध इत्यर्थे / अध्यारूढः खार्यां द्रोणः, अधिकः / अध्यारूढा खारी द्रोणं, द्रोणाधिका