________________ तृतीयोऽध्यायः तृतीयः पादः 209 विमानत्वम् / गुरुपोत्तमात् किम् ? क्षत्रियत्वम् / असुप्रख्यात् किम् ? सुप्रख्यत्वम् / [सुप्रख्यता / ] सौप्रख्यम् / द्वन्द्वाद् वुञ् लित् स्यात् स्त्र्यर्थः / गौपालपशुपालिका / शैष्योपाध्यायिका / कौत्सकुशिकिका / अपत्यचरणवाचिभ्यां श्लाघादिविषये लिवुञ् / गार्गिकया गार्ग्यत्वेन वा श्लाघते [आक्षिपति / अवगच्छति / ] एवम् अत्याकुरुते / अधिक्षिपति / एवं ताम् अवगतः प्राप्तो ज्ञातत्वाद् वा / एवं काठिकया [श्लाघते / अधिक्षिपति / अवेतः // ] हौत्रम् / होतृत्वम् / [होतृता / ] यौवनम् / [युवत्वम् / युवता / श्रोत्रियशब्दे इल्लुग् यः / श्रौत्रम् / दुःसोः परे स्त्र्यादयः / दुःस्त्री / सुस्त्री / दुर्भ्रातृ / सुभ्रातृ / दुर्हद् / सुहृद् / दुहृदयः / सुहृदयः / निर्हदयं चेति हृदयादसमासे चेत्यर्थः / हायनात् / द्वैहायनम् / [विहायनत्वम् / द्विहायनता / ] त्रैहायनम् / [त्रिहायनत्वम् / त्रिहायनता / ] औन्नेत्रम् / उन्नेतृत्वम् / [उनेतृता / ] जन्तुजातेः / आश्वम् / [अश्वत्वम् / अश्वता / ] औष्ट्रम् / [उष्ट्रत्वम् / उष्ट्रता / ] तकोऽकवीक इति / तको ल[ध्व]क्षरात् पराद् अकवीकः कविवर्जितः, [तादृशाद्] इगन्तात् / शौचम् / शुचित्वम् / [शुचिता / ] पार्थिवम् / [पृथुत्वम् / पृथुता / ] प्रथिमा / पैत्रम् / पितृत्वम् [पितृता / ] वयोऽर्थ / कौमारम् / [कुमारत्वम् / कुमारता / ] कैशोरम् / [किशोरत्वम् / किशोरता / ] वार्करम् / पुरुषः / निदसमासार्थः / सुभगमन्त्रेऽर्थे / ऋत्विजादेरिति ऋत्विग्विशेषेभ्यो न स्वरूपतः / आच्छावाकीयम् / आच्छावाकत्वम् / मैत्रायणीयम् / [मित्रायणत्वम् / मित्रायणता / ] (34) ब्रह्मणस्त्वम् / [3 / 3 / 5 / 6 / ] ब्रह्मण ऋत्विग्विशेषस्य भावः कर्म वेति त्वमेव स्यात् / ब्रह्मत्वम् // 5 // णोऽन्नं च लब्धा ख यथामुखादेर्गामभ्यमित्रं छ य चाध्वनो B- / ऽयः शूलदण्डाजिन ठञ् तु कामी प्रायो वनादेः क इहाभिधान्नम् // 3 // 36 // वृत्तम् // (35) णोऽन्नं च लब्धा / [3 / 3 / 6 / 1 / ] अन्नमिति द्वितीयान्ताल्लब्धेत्यर्थे ण अ स्यात् / एवं. सूत्रोक्तस्तुवन्तावद्विधिः / आन्नः / आन्नाः // ___(36) ख यथामुखादेः / [ 3 / 3 / 6 / 2 / ] बहुलार्थे / वृत्तं च षट्पादिह यथामुखं सम्मुखमत्र दृश्यं सर्वान्नमत्याप्रपदं च सर्वा- | दङ्गं च पत्रं पथिकर्मपात्रं व्याप्नोति बद्धानुपदं तु नेयः // 1 // अयानयं चानुभवेत् परम्परं पुत्रपौत्रं च परोवरं च / अत्यन्तकामं तदवारपारं गाम्याशितंग्वद्यनुग्वागवीनाः / ... अलंकर्म चालंपुरुषाऽषडक्षं समासमीना पुनरद्यश्वीनम् // 2 // यथामुखं सन्मुखं च दृश्यते अत्र वा कर्दमादौ, यथामुखीनः / [सम्मुखीनः / ] सर्वान्नमत्तीति, सर्वान्नीनः / आप्रपदं सर्वाण्यपराण्यङ्गादीनि च व्याप्नोतीति पदाग्रं प्रपदम् / आप्रपदं व्याप्नोतीति, आप्रपदीनः पटः / सार्वङ्गीणः तापः / सर्वपत्रीणः सारथिः / सर्वपथीनो रथः / सर्वकर्मीणो ना / सर्वपात्रीण ओदनः / अनुपदं बद्धा, अनुपदीना उपानत्, पदप्रमाणा / अयानयीनः शारः / परं च परतरं च परम्परम् / परं च वरं च परोवरं, निपातनात् / ताननुभवतीति च परम्परीणः / 'पञ्च.-२७