________________ 208 पञ्चग्रन्थी व्याकरणम् विषमस्थः परमस्थः गणपतिबहुषकुशलगडुलाः स्युः / विषिका शिलिकाऽपराधयमधिपत्याद्याकृतिगणः // 5 // पुरोहितस्य भावः कर्म वा, पौरोहित्यम् / पुरोहितत्वम् / [पुरोहितता / ] ब्राह्मण्यम् / [ब्राह्मणत्वम् / ब्राह्मणता / ] पत्यन्तगुणाभ्याम् / सैनापत्यम् / प्राजापत्यम् / जाड्यम् / जडिमा / जडत्वम् / [जडता / ] मौढ्यम् / [मूढिमा / मूढत्वम् / मूढता / ] अर्हतो नुमागमोऽण्यटि / . आर्हन्त्यम् / अर्हत्वम् / अर्हत्त्वम् / एकादेः परो भावः / [एकभावः / [द्विभावः / त्रिभावः / अन्यभावः / ] राजन् केवलः / अधिसु अधिश्च परः / [सौराज्यम् / आधिराज्यम् / अधिराजत्वम् / अधिराजता // ] (31) यो दूतवणिक्सखिस्तेः / [3 / 3 / 5 / 3 / ] भावकर्मार्थे वा / स्तेनः स्ते निपात्यते / दूत्यम् / दूतत्वम् / वाणिज्यम् / [वणिजत्वम् / ] सख्यम् / [सखित्वम् / ] स्तेयम् / [स्तेनत्वम् / ] पुरोहितादौ च स्तैन्यम् // ___(32) ज्ञातेः कपेढेञ् / [ 3 / 3 / 5 / 41] तयोर्वा / ज्ञातेयम् / [ज्ञातित्वम् / ज्ञातिता / ] कापेयम् / [कपित्वम् / कपिता // ] (33) वुञणौ मनोज्ञहोतृत्विजादेश्छ तु / [3 / 3 / 5 / 5 / ] एषां क्रमेण वुजणस्थाः वा स्युः। वृत्तं च षट्पात् प्रथम, द्वितीये स्याद् दोधकं पञ्चपदी च आर्या ऋत्विग्विशेषास्तृतीयेऽस्त्वतो मनोजकल्याणप्रियाभिरूपमेधाविछात्राद्यनु छान्दसः स्यात् / / दिवो युवन् श्रोत्रियविश्वधूर्ताः ग्रामाच्छतामुष्यकुलाच्च पुत्रः // 1 // ग्रामखण्डादहोरूपाद् योपान्ताद् गुरुपोत्तमात् / असुप्रख्यात्तु लिद्वद्वाद् अपत्यचरणात् तथा / श्लाघाक्षेपावगतेषु वात्रामुष्यकुलादिवृत् // 2 // होतृयुवन्यजमानप्रशास्तृभ्रातृकमण्डलुकन्दुककुस्त्रम् / सुष्टुवधूश्रवणस्थविराः स्युः दुष्ठकुतूहल श्रोत्रिय इज्यः // 3 // स्त्री भातृहद्भिर्हदयं च दुःसोः सुब्रह्मचारिन्वृषलानृशंसु / क्षेत्रज्ञमध्वर्यु च हायनान्तोन्नेता परिव्राजकजन्तुजाति / तकोऽकवीकः प्रविहर्तृ गाथा // 4 // परिगणको रथगणको निपुणः पिशुनो वयोर्थ उद्गातृ / चपलकृतकौ कुशलं पुरुषः सुभगेषु मात्रवृत् // 5 // मानोज्ञकम् / मनोज्ञत्वम् / प्रियाभिभ्यां रूपम् / प्रेयरूपकः / [आभिरूपक:] ग्रामादेः पुत्रः / ग्रामपुत्रः / [शतपुत्रः / अमुष्यपुत्रः / कुलपुत्रः / ] योपान्तात् / गुरुपोत्तमात् / रामणीयकम् / [रमणीयत्वम् / रमणीयता / ] साहायकम् / साहाय्यम् / योपान्तात् किम् ?