________________ तृतीयोऽध्यायः तृतीयः पादः 207 सिति, अपटुत्वम् / आपटवम् // (27) वाऽसंगतादेः / [3 / 3 / 4 / 8 / ] न यितस्तौ / असंगतत्वम् / [असंगतता / ] आसंगत्यम् / [अचतुरत्वम् / अचतुरता / आचतुर्यम् / अलवणत्वम् / अलवणता / आलवण्यम् / अलसत्वम् / अलसता / आलस्यम् // ] (28) इमनिः पृथुभ्यः / [3 / 3 / 4 / 9 / ] वा भावे / प्रथिमा / पार्थवम् / पृथुत्वम् / [म्रदिमा / मार्दवम् / मृदुत्वम् / ] हरिणीप्लुताऽनुष्टुबत्र पृथुबालमहद्गुरुसाधवो बहुलपण्डिमकिञ्चनस्वादुनी / पटुखण्डजराशुलधूनि च प्रियमृदूरवचण्डतनूऋजूः // 1 // क्षिप्रक्षुद्रौ च दीर्घश्च हुस्वमन्दौ तथा बहु-। होडपाकाश्च वत्सश्च महिखण्डौ च केचन // 2 // // 4 // दृढादितोऽण्यट् च पुरोहितादेः कर्मापि यो दूतवणिक्सखिस्तेः / ज्ञातेः कपेढेञ् वुञणौ मनोज्ञहोतृत्विजादेश्छ तु ब्रह्मणस्त्वम् // 3 // 35 // वृत्तम् // (29) दृढादितोऽण्यट् च / [3 / 3 / 5 / 1 / ] तथेमन्यत्व वा / ते अत्र दृढवर्णकृशोचितपण्डिता लवणमूर्खजडाम्रभृशदृढाः / बधिरोष्णमिहाम्ल च वर्णतः परिवृढो मधुरोऽपि च मूक च // 1 // चक्रशीते च वियातमतिलातमनस्तथा / शारदश्च समस्यान्तं मनोमती तथा गणः // 2 // दाढयम् / द्रढिमा / दृढत्वम् / [दृढता / ] वर्णतः / काष्र्ण्यम् / [कृष्णिमा / कृष्णत्वम् / कृष्णता / ] शौक्ल्यम् / [शुक्लिमा / शुक्लत्वम् / शुक्लता / ] वेः परे यातादि / शारदन्ताः समो मनोमती / [वियातः / विमतिः / विलातः / विमनाः / विशारदः / संमनः / सम्मतिः // ] - (30) पुरोहितादे : कर्मापि / [3 / 3 / 5 / 2 / ] भावे, अपीति कर्मणीत्यर्थेऽण् यट् च वा / इहापि वंशस्थदोधकवृत्तानि द्वयमार्ययोश्च पुरोहितग्रामिकधूर्तदण्डिकाः विराधयाराधयचौरखण्डिकाः / / समस्थमध्यस्थनिपातचर्मिका अनीश्वरब्राह्मणमाणवाऽसाः // 1 // राक्षसवाडवदुष्पुरुषाः स्युः बालिशनिष्कुलिकपुरुषाः स्युः / पूतिकसूचिकसारथिकाः स्युः छत्रिकसाञ्जलिकाञ्जनिकाः स्युः // 2 // वंशादिसंवेशिविपातकर्मिकाः क्षेत्रज्ञसंभाषिनश्च जानिकाः / कविः स्तेनो विशर्मप्रतिको विशस्ति अन्यस्थपत्यन्तगुणोऽर्हतोर्नुम् // 3 // एकद्विव्यन्येभ्यो भावो राजन्नधिश्च तिश्चति / चपलनिपुणोपराधयपिशुना दायादशीर्षघातिन् स्यात् // 4 //