________________ 206 पञ्चग्रन्थी व्याकरणम् (14) ङः पूरणम् / [3 / 3 / 3 / 1 / ] षष्ठ्यन्तसंख्यायाः पूरणमित्यर्थे डट् स्यात् / एकादशानां पूरणः, एकादशः / द्वादशी / संख्यायाः किम् ? द्वाद्वशीनां मुष्टिकानां पूरणो घटः // (15) षट्चतुरः कतेः थक् पित्तत्पयात् / [3 / 3 / 3 / 2 / ] ततोऽनन्तरकतेः पयः तत्पयः / कतिपयाचेत्यर्थः / एषां डटि थुगागमश्च / षष्ठः / [चतुर्थः / कतिथः / कतिपयथः / पिदस्त्यर्थः / / (16) विंशतितस्तमड् वा / [3 / 3 / 3 / 3 / ] भ्यसस्तस् / विंशत्यादेः पूरणमिति तमड् डट् वा / विंशतितमः / विंशः / [एकाविंशतितमः / ] एकविंशः / [विंशतितमः / ] त्रिंशः / अष्टापञ्चाशत्तमः / [अष्टापञ्चाशः // ] (17) शतादिसंवत्सरमासतोऽर्धमासाच्च / [3 / 3 / 3 / 4 / ] तथा तन्नित्यम् / शततमः / लक्षतमः / एकशततमी / संवत्सरतमो दिवसः / [मासतमो दिवसः / अर्धमासतमो दिवसः // ] (18) षष्ट्याद्यतदादि / [3 / 3 / 3 / 5 / ] अतदादि असंख्यादि डसि लो पाद् असंख्यापूर्वषष्ट्यादेस्तथा / षष्टितमः / नवतितमी / तदादेः / एकषष्टः / एकषष्टितमः // (19) नो मट् / [3 / 3 / 3 / 6 / ] [नान्तादेः] तथा [मट्] पञ्चमः / दशमी / असंख्यादे: किम् ? एकादशः / अष्टादशः // 3 // तुर्यस्तुरीयो बहुपूगसंघाद् गणादियोऽतोष्टित पिच्च तीयत् / द्वेस्त्रेस्तृभावस्त्वतलौ नो या वाऽसङ्गतादेः इमनिः पृथुभ्यः // 3 // 34 // वृत्तम् // (20) तुर्यस्तुरीयः / [3 / 3 / 4 / 1 / ] चतुर्णां पूरण इत्यर्थे निपात्यते // 21) बहुपूगसंघाद् गणादिथः / [3 / 3 / 4 / 2 / ] बहादेः पूरणे टित् तिट्टिथ: स्यात् / पर: पिदस्त्र्यर्थोऽत्रापि / बहुतिथः / [पूगतिथः संघतिथः गणतिथः / ) वह्वीनाम् / बहुतिथी // (22) अतोष्टित पिच्च / [3 / 3 / 4 / 3 / ] अत्वन्तसंख्यायाः पूरणे टित् इथ स्यात् पित् / यावतिथः / तावतीनां पूरणी, तावतिथी // (23) तीयत् द्वेः / [3 / 3 / 4 / 4 / ] तथा / द्वितीयः / तुटत् प्रत्याहारार्थः // (24) त्रेस्तु / [3 / 3 / 4 / 5 / ] तथा / त्रेस्तीयत्, तृ चादेशः तृतीया // (25) भावस्त्वतलौ / [3 / 3 / 4 / 6 / ] षष्ठ्यन्ताद् भाव इत्यर्थे च त्व तल् च स्यात् / शब्दस्य प्रवृत्तिनिमित्तं भावः / भवतोऽतोऽभिधानप्रत्ययाविति / शुक्लस्य पटस्य गुणस्य वा भावः, शुक्लत्वम् / शुक्लता / गुणो गुणजातिश्च भावः / गोत्वम् / [गोता / ] गोजातिः / पावकत्वम् / दण्डित्वम् / राजपुरुषत्वमिति क्रियादिसम्बन्धित्वम् / देवदत्तत्वम् / चन्द्रत्वम् / सूर्यत्वम् / अवस्थाविशेषं सामान्यम् / आकाशत्वम् / अभावत्वमिति, उपचरते भेदसामान्यम् // (26) नओ या / [3 / 3 / 47] नञ्तत्पुरुषाद् अस्य भावे त्वतलावेव स्तः / अमृदुत्वम् / (अमृदुता (] अपतित्वम् / (अपतिता / नञ् किम् ? बार्हस्पत्यम् / यत् किम् ?