________________ 205 तृतीयोऽध्यायः तृतीयः पादः नदिन्नुमर्थं निपात्यते / इयान् कियानिति छन्दोऽर्थम् / इयती / [कियती / ] इयन्मात्रम् / [कियन्मात्रम् // ] (8) यत् / [3 / 3 / 1 / 8 / ] उत्तरार्थम् // 1 // एतत्तदोदावतु द्विव्युभेभ्योऽशष्टाऽय संख्या कति वा तयोऽस्याः / क्रयं च मूल्यं मयदृच्छते सहस्रेऽधिकास्मिन् शतिशदृशान्ताः // 3 / 3 / 2 // वृत्तम् // (8) यदेतत्तदोदावतु / [3 / 3 / 2 / 1 / ] वानथ / यावान् / [तावान् / एतावान् / ] यावती / [तावती / एतावती / ] यावन्मात्रम् / [तावन्मात्रम् / एतावन्मात्रम् // ] (9) द्विव्युभेभ्योऽशष्टाऽय / [3 / 3 / 2 / 2 / ] एभ्यः सोऽस्यंशो अवयव इत्यर्थे टालक्षितः, टिदित्यर्थः, अयः स्याद् वा / टातये वा / द्वावंशौ अवयवौ अस्य, द्वयम् / त्रयम् / द्वितयम् / त्रितयम् / उभयो मणिः / उभये देवमनुष्याः // " (10) संख्या कति वा / [3 / 3 / 2 / 3 / ] क मानमेषामिति डतिर्वा / कति विप्राः / कियन्तो वा / वा नातः / (11) तयोऽस्याः / [3 / 3 / 2 / 4 / ] अस्याः संख्यायाः सोऽस्यांशः टितयः स्यात् / पञ्चांशाऽस्य, पञ्चतयः संघः / चतुष्टयी रज्जुः // __(12) क्रेयं च मूल्यं मयट् / [ 3 / 3 / 2 / 5 / ] संख्यायाः सोऽशो गुणः क्रेयं मूल्यं चेत्यर्थे टिन्मयः स्यात् / उदश्वितः द्वौ भागौ केयमस्य यवभागस्य / द्विमयाः यवा उदश्वितः / त्रिमयाः / * यथा यवानां द्वौ भागौ मूल्यमस्योदश्विद्भागस्य द्विमयमुदश्विद्यवानाम् / त्रिमयम् / चतुर्मयम् / केयमूल्ये किम् ? द्वौ भागौ क्षीरस्यैकः शर्करायाः / अंशः किम् ? द्वौ व्रीहियवौ मूल्यमस्योदश्वितः / कुतो नात्र द्वौ यवांशौं मूल्यमेषामुदश्वितामिति समुदितानां, यवांशसंख्या-सम्बन्धाभावात् / प्रत्येकसम्बद्ध स्यात् / द्वौ. उदश्विदंशौ क्रममेयं यवानां, द्विमयायवा उदश्वितः / नेह / एको यवांशो मूल्यमस्योदश्वितः, एकस्यांशांशिकल्पनाभावात् / समता तु गम्यते / द्वौ यवांशौ अध्यर्धमुदश्वितः, अध्यर्थं वा यवानाम् / द्वौ उदश्विदंशाविति अमानांशानां तदंशाप्रतीतेः // (13) टत् शते सहस्रेऽधिकास्मिन् शतिशद्दशान्ताः / [3 / 3 / 2 / 6 / ] संख्याऽधिकाऽस्मिन् शते सहस्त्रे वाच्ये टत् स्यात् / विंशतिरधिकास्मिन्, विशं शतम् / [विशं सहस्रम् / ] शतसहस्रं वा / एकविंशम् / [द्वाविंशम् / त्रयोविंशम् / ] त्रिंशं शतम् / त्रिंशं संहस्रम् / एकत्रिंशम् / ] एकादशम् / [द्वादशम् / त्रयोदशम् / शन्सिद्धेः दशन्न केवलार्थम् / द्वे तदन्ते च / एतदन्ता किम् ? षडधिकाऽत्र / शते [सहस्रे] किम् ? एकादशाधिकास्यां विंशतौ / संख्यायाः किम् ? गोविंशति रधिकात्र गो शते / नेह / एकादशपणा अधिका अत्र कार्षापणशते, विजातीयानामाधिक्यानवगतेः / टिदुत्तरार्थम् // 2 // ङः पूरणं षट्चतुरः कतेः थुक् पित्तत्पयाद् विंशतितस्तमड् वा / शतादिसंवत्सरमासतोऽर्धमासाच्च षष्ट्याद्यतदादि नो मट् // 3 // 33 // वृत्तम् //