________________ [ // अथ तृतीयाध्याये तृतीयः पादः // ] सञ्जातमभ्रेभ्य इतेच्च मात्रट् मानं द्विगोर्लुक पुरुषादणूर्ध्वम् / वा हस्तिनोऽपि द्वयसट् च दनट् शनशच्छतेर्डिन् इयतुः कियान् यत् // 3 / 3 / 1 // वृत्तम् // (1) सञ्जातमभ्रेभ्य इत / [3 / 3 / 1 / 1 / ] प्रथमान्तादभ्रादेरस्य सञ्जातमित्यर्थे इत स्यात् / अत्रापि चतुर्हतार्याः ससङ्गतादौ अभ्रनिद्राबुभुक्षानिशारोगावेगप्रचारव्रणव्याधितन्द्राः पिपासागलोत्कण्ठदेहाः सुखद्रोहदुःखं भरः तारका कंटकाऽङ्गार च // 1 // किसलयसूचकौ कुसुमं करुः कुवलकुड्मलनिष्क्रमणं तथा / पल्लवमूत्रपुरीषविचारं च सुकुसल गर्भ न जन्तुषु // 2 // श्रद्धोत्कर्षोच्चाराः प्रलयजिगीषा पुष्प च गणोऽयम् / . सङ्गतचतुरवडवबुधवातालसलवणं रसो वृच्च // 3 // तारकितं च नभः / निद्रितो ना / कण्टकितो वृक्षः / यावत् पुष्पितः // (2) इच्च मात्रट मानम् / [ 3 / 3 / 1 / 2 / ] प्रथमान्तादस्यमानमित्यर्थे मात्रट् स्यादिच्च लुक् न चोक्ते / पञ्च मानमस्य पञ्चमात्रम् / वितस्तिमात्रम् / पटः प्रदेशमात्रः / शमित् / [शमः प्रमाणमस्य शमः / ] इच्च / पलं घृतम् / दिष्टिः वितस्तिः पटः // . (3) द्विगोर्लुक् / [3 / 3 / 1 / 3 / ] एतदर्थे द्विगोनिमित्तो लुक् स्यात् / द्विपलम् / द्विप्रस्थी // (4) पुरुषादण् ऊर्ध्वं वा हस्तिनोऽपि / [3 / 3 / 1 / 4 / ] आभ्यां तथो मानेऽण् वा, यथाप्राप्तं वा / पौरुषम् / हास्तिनम् / पुरुषदघ्नम् / [हस्तिदघ्नम् / पुरुषद्वयसम् / हस्तिमात्रम् / ] पुरुषमात्रम् // (5) द्वयसट् च दनट् / [ 3 / 3 / 15 / ] तथोर्ध्वमाने स्तो वा / ऊरुद्वयसम् / ऊरुदघ्नम् / ऊरुमात्रं जलम् / जानुदघ्नी नदी / तावद्दघ्नी / [तावद्वयसी / तावन्मात्रा // ] (6) शनशच्छतेर्डिन् / [3 / 3 / 16 / ] तथा वा / पञ्चदशमानमेषां पञ्चदशिनोऽर्धमासाः / त्रिशिनो मासाः / विशिनोऽङ्गिरसः / पञ्चदशमात्राः // (7) इयतुः कियान् / [3 / 3 / 17 / ] इदं किं च मानमस्येत्यर्थे / इयतु / कियतु /