________________ तृतीयोऽध्यायः द्वितीयः पादः 203 (120.) ठो बह्वजादेः / [3 / 2 / 15 / 5 / ] बह्वच्पूर्वपदात् तथा ठः / द्वादशान्यिकः / त्रयोदशान्यिकः // (121) स शस्त्रम् / [3 / 2 / 15 / 6 / ] प्रथमान्ताद् अस्य प्रहरणमित्यर्थे ठञ् स्यात् / तोमरः प्रहरणमस्य तौमरिकः / आसिकः / धानुष्कः // (122) स्याच्छक्त्यादेष्टीक / [3 / 2 / 15 / 7 / ] तथाऽतः टित् ईक: स्यात् / शाक्तीकः / याष्टीकः / आम्भसीकः / ऐषीकः / टिद् ड्यर्थः / आकृतिगणः / (123) पारश्वधः स्यात् / [3 / 2 / 15 / 8 / ] परश्वधः प्रहरणमस्येत्यण् / [पारश्वधिकः // ] (124) शिल्पं च / [3 / 2 / 15 / 9 / ] प्रथमान्ताद् अस्य शिल्पं कौशलमित्यर्थे ठञ् स्यात् / मृदङ्गवादनं शिल्पमस्य, मार्दङ्गिकः / पाणविकः // (125) अण् वा मड्डुकाज्झर्झराच्च / [3 / 2 / 15 / 10 / ] तथाऽण् च / माड्डुकः / [माड्डुकिकः / झार्झरः / झाझरिकः // ] (126) ठोः शीरादेः / [3 / 2 / 15 / 11 / ] एते गन्धाढ्याः पण्यमस्येत्यर्थे ठः स्यात् / आर्येह अत्रोशीरहरिद्राकिशरनरदनलदगुग्गुलुस्थगलाः / तगरो हरिद्रुपी शलालुनो वा गणो ज्ञेयः // 1 // * उशीरकी / शलालुनः छ च ठञ् वा / शलालुकः / [शालालुकः / पण्या सुप् वा पृथगर्थः / प्रथमान्तादस्य पण्यमिति सूत्रार्थे ठञ् स्यात् / अपूपाः पण्यमस्य, आपूपिकः / लावणिक : // पञ्चपादियं गाथा / वृदिति दशमः पादः // 15 // [इति श्रीबुद्धिसागराचार्यकृतपञ्चग्रन्थ्यां संस्कृताधिकारे तृतीयाध्याये द्वितीयः, आदितो वा दशमः, पादः / ]