________________ 202 पञ्चग्रन्थी व्याकरणम् स्यात् / शुल्कशालायां नियुक्तः, शौल्कशालिकः / दौवारिकः // (113) ठः साद्यगारात् / [3 / 2 / 14 / 6 / ] तथाऽऽगारान्ताच्च / कोष्ठागारिकः / देवागारिकः / भाण्डागारिकः // (114) आकालिको वा / [ 3 / 2 / 147] आद्यन्तावुत्पादविनाशौ सम्यगभावस्य, आ तं कालं भवतीति वेत्यर्थे आकालिकोपनिपात्यते, स चेत्यलक्षितो वा / आकालिकः स्तनयित्नुः / . आकालिकी, आकालिका वा, विद्युत् / यस्मात् कालाद् गृहदाहो वृत्तः श्वस्तनेऽपि दिने आ तं कालं स्याद् आकालिकोऽनध्यायः // (115) अणिदृविलेपकादेः / [3 / 2 / 14 / 8 / ] ऋवर्णविले पकादीनां धर्म्य न्याय्यमित्यर्थेऽण् स्यात् / होतुर्धम्यं, हौत्रम् / औद्गात्रम् / एवं वैलेपिकः / वेः / परं भाजितृशस्तृ स्याद् इत् / इलृक् / विभाजयितृ / विशासितृ / अनयोः क्रमेण णियोर्लुक् / वैभाजित्रम् / वैशस्त्रम् / वृत्तं त्विह विलेपिका स्यान्महिषी पुरोहितोऽनुलेपिकाभाजितृशास्तृसेरीत् / / स्याद् याजमानोऽप्यनुचारकोऽपि प्रजापतिः स्यान्मणिपाल्यथो वृत् // 1 // धर्म्यमत्र सम्बध्यते // 14 // धर्म्य शीलं णेश्छत्राः कर्मवृत्तं झेऽध्याये ठो बह्वजादेः स शस्त्रम् / स्याच्छक्त्यादेष्टीक पारश्वधः स्याच्छिल्पं चाण वा मड्डुकाज्झर्झराच्च / ठोः शीरादेः पण्य वा पञ्चपादवृत् // 3 / 2 / 15 // शालिनी पञ्चपात् // (116) धर्म्यम् / [ 3 / 2 / 15 / 1 / ] ?ऽत्र पप्ठ्यन्ताद् धर्म्य धर्मादनपेतमित्यर्थे ठञ् स्यात् / शुल्कशालायाः धर्म्य, शौल्कशालिकम् / आपणिकम् // . (117) शीलम् / [3 / 2 / 15 / 2 / ] सोऽत्रापि / स इति प्रथमान्ताद् अस्य शीलं स्वभाव इत्यर्थे ठञ् स्यात् / अपूपाः भक्षणं शीलमस्य, आपपिकः / भक्षणादिक्रिया तच्छीलं च तद्धितवृत्तावन्तर्भवति // (118) णेश्छत्राः / [3 / 2 / 15 / 3 / ] सूत्रत्वात् पुंनिर्देशः / जम्भणार्थं छात्रादयः शीलमस्येत्यर्थे णः स्यात् / गुरुच्छिद्रछादनाच्छत्रं शीलमस्य च्छात्रः शिष्यः / प्राद्यन्तरः परः स्थाः / आस्था, संस्था, उपस्थेत्यादि / तथाऽवस्था / वृत्तमत्र छत्रं बुभुक्षा कृषि कर्म शिक्षा चोक्षा उपस्थान चुरा पुरोदाः / भिक्षा च सत्यांनृतविश्वधा तपः प्राद्यन्तरः स्था विशिको गणोऽयम् // 1 // (119) कर्मवृत्तं ?ऽध्याये / [3 / 2 / 15 / 4 / ] प्रथमान्तात् षष्ठ्यर्थे ठञ् स्यात्, तत् प्रथमान्तं चेद् वृत्तमध्ययनविषयं स्यात् / एकमन्यत् कर्म पपाठ रूपमध्ययने वृत्तमस्य ऐकान्यिकः / अध्ययने किम् ? एकमन्यत् कर्म स्खलितं गमने वृत्तमस्य /