________________ तृतीयोऽध्यायः द्वितीयः पादः 201 औत्पुटिक: यावद् वैवधिक : / वीवधविवधच् वीच्प्रत्याहारः / एतौ समानार्थी पथि पर्याहारे च वर्तेते / उत्पुटादि / वीच् / वीवधिकः / [वीवधिकी / ] विवधिकः / [विवधिकी / ठञपि / वैवधिक: / वैवधिकी / ] टिड्यर्थः / अंशे शीर्षे / एभ्यः परो भारोऽत्र / अंशभारः / [अंशेभारः / शीर्षेभारः / शीर्षभारः / ] अंशेभारिक इत्यादि / (103) टो नौ व्यचश्च प्लवते / [3 / 2 / 13 / 4 / ] तथा तरतीत्यर्थे / नावा प्लवते तरतीति नाविकः / घटिकः / प्लविकः / बाहुकः / नौ व्यचश्चेति चकारः पृथगर्थः / तेन तृतीयान्तात् प्लवत इत्यर्थे ठञ् स्यात् / काण्डप्लविकः / औडविकः / (104) कृतोऽक्षयूतैः / [3 / 2 / 13 / 5 / ] एभिः कृतो निर्वृत इत्यर्थे ठञ् / [अक्षयूतेन निर्वृतं वैरम्.] आक्षधूतिकम् / आर्येह अक्षयूतगतागतकण्टकमर्दनमतो गतानुगताः / यातापयातपादस्वेदनजधाप्रहारादि // 1 // आदि जङ्घाप्रहृताद्यर्थः // (105) इमोऽब्भावघणः / [3 / 2 / 13 / 6 / ] आभ्यां कृत इत्यर्थे इमः स्यात् / क्रयिमम् / तरिमम् / ,पाकिमम् / त्यागिमम् / सेकिमम् / अट्टिमम् / अप् घण् किम् ? पचनेन निवृत्तम् / भाव किम् ? शरेण कृष्टम् // (106) अपमित्यात् कण याचितात् / [3 / 2 / 13 / 7 / ] आभ्यां कृते कण् / आपमित्यकम् / [याचितकम् // ] | ___ (107) चञ्चुचणौ च वित्तः / [ 3 / 2 / 13 / 8 / ] टान्ताद् वित्तः प्रतीत इत्यर्थे स्तः / विद्यया वित्तः, विद्याचञ्चः / विद्याचणः / केशचञ्चुः / [केशचणः] // 13 // . उर्योऽर्घपादातिथिदेवतान्तात् तद्दीयते वौदनतोऽण् च भक्तात् / नित्यं नियुक्तोऽत्र ठः साद्यगारादाकालिकोऽणिविलेपकादेः // 3 / 2 / 14 // वृत्तम् // (108) डेर्योऽर्घपादातिथिदेवतान्तात् / [3 / 2 / 14 / 1 / ] डेरिति चतुर्थ्यन्ताद् अर्घादेर्यः स्यात् तस्मै इदमित्यर्थे / अर्घ्य, [पाद्यं] जलम् / अतिथेरात्वं च निपातनात् / आतिथ्यम् / एवम् अग्निदैवत्यम् / वायुदैवत्यम् // ____(109) तद्द्दीयते / [3 / 2 / 14 / 2 / ] तदिति प्रथमान्ताद् अस्मै दीयते नित्यमव्यभिचारेणेत्यर्थे ठञ् स्यात् / अग्रभोजनमस्मै नित्यं दीयते, आग्रभोजनिकः / आपूपिकः / यामिकः / आग्रहारिकः / मांसोदनिकः // (110) वौदनतः / [3 / 2 / 14 / 3 / ] तथा / औदनिकः / [औदनिकी // ] 111) अण् च भक्तात् / [3 / 2 / 14 / 4 / ] तथा ठञ् च / भाक्तः / [भाक्तिकः // ] (112) नित्यं नियुक्तोऽत्र / [ 3 / 2 / 14 / 5 / ] अत्रेति सप्तम्यन्तान्नियुक्तोऽधिकृत इत्यर्थे ठञ् पञ्च.-२६