________________ तृतीयोऽध्यायः चतुर्थः पादः 221 शब्दं करोति शब्दायते / अट्टायते / अटाट्यायते वा यावत् कण्ड्वायते / आद्ये तदर्थान्यार्थः / चित्रं करोति / ङि चान्तः / चित्रे आश्चर्येऽर्थे / चित्रीयते / चित्रे किम् ? चित्रं करोति / करोतिः शब्दादिषु सम्बध्यते / नमस् तपस् वरिवसश्च करोतीति च ङ तदन्तादङ् च स्यात् / नमस्यति देवान् / तपस्यति / वरिवस्यति / गुरून् परिचरति / मुञ्चत्युद्वमतीत्यर्थे बाष्पादीन् / बाष्पायते / [उष्मायते / लालायते / प्रथायते / फेनायते / धूमायते / ] रोमन्थं वर्तयति हत्वा दंष्ट्रयेति रोमन्थायते गौः / हत्वा किम् ? रोमन्थं वर्तयति कीट: / र्डे चतुर्थ्यन्तात् / कष्टादेः / पापे क्रमे / क्रमणेऽर्थे / कष्टाय कर्मणे कामति, पापं कर्तुमिच्छतीत्यर्थे / कष्टायते / [कक्षायते / गहनायते / सत्त्रायते / शत्राद् भासस्तस् / एतदर्थान्यार्थः / दुःखादीन् भुङ्क्तेऽनुभवतीत्यर्थे / दुःखायते यावद् अश्रायते / तथेत्येतदर्थ्यान्यार्थः / कर्तुः भृशादेरस्यन्तात्, व्यर्थे क्य स्यात् / हल्क् च / अभृशो. भृशो भवति, भृशायते / रेहत् रेहायते / ओजस् ओजायते / दुर उत् सु अभि एभ्यः परं मनस् / अदुर्मना दुर्मना भवति, दुर्मनायते / [उन्मनायते / सुमनायते / अभिमनायते / ] अप्येत्येतदर्थान्यार्थः / यद् वाषानतरेभ्यो डा लोहितादिभ्यस्तथैव क्यट, तदन्तात् तद् वा स्यात् / डान्तात् / पटपटायति / तद् वा / वेति व्यवस्थायां च / तद्युक्तवत्येव कर्तरि / मदमदायति / तथा लोहितायति / [लोहितायते / ] भ्यस् एतदर्थेऽन्यार्थः / निद्रायति / [निद्रायते / ] धर्मायति / [धर्मायते / ] इवादुपमानात् कर्तुः क्य स्यादाचरतीत्यर्थे / अप्सरसो ओजसोलुक् चान्तः सः सकारान्तस्यान्यस्य वा / तद् वा न वर्तते / श्येन इवाचरति श्येनायति काकः / पुष्करायते कुमुदम् / अप्सरायते / ओजायते / पुनरोजोऽर्थविशेषार्थम् / पाययते / पयस्यते / किन्न क्ये पदार्थम् / ङि तङर्थम् // - (2) क्तिप् कर्तृवदाचरतीति / [3 / 4 / 1 / 2 / ] कर्तुरुपमानादाचारे क्तिप् स्यात् / अश्व इवाचरित / अश्वायति / गवति / रायति / न्यवति वाचा / दधयति / मधयति / दध्या / किदड शेऽर्थः / पिन् प्रितोरित्यर्थः / नामत्वान्न पिति, लुक् च // (3) गल्भात् ङ्तिक्लीबहोडात् / [3 / 4 / 1 / 3 / ] तथेभ्यः क्तिप् ङित् स्यात् / गल्भते / [क्लीबते / होडते / ] यद् वोक्तानां मध्ये यो ङित् स्यात् / क्यङित्यर्थः / गल्भायते / [क्लीबायते / होडायते / ] ___(4) ङि समोऽम्वतः क्यच् / [3 / 4 / 1 / 4 / ] आधारादाप्याच्चोपमानादाचरतीत्यर्थे क्यच् स्यात्, अम्वतः मान्तादिवर्जितात् / प्रासादे इवाचरति, प्रासादीयति / कुट्याम् / पयङ्कीयति मञ्चके / पुत्रमिवाचरति, पुत्रीयति छात्रम् / प्रावारीयति कम्बलम् / अम्वादेः किम् ? किमिवाचरति / स्वरिवचित्क्यचीत्यर्थम् // - (5) स्वाप्यात् स काम्येच्छति / [3 / 4 / 15 / ] स्वस्याप्यमिच्छतीत्यर्थेन स इति क्यच् काम्य च स्यात् / आत्मनः पुत्रमिच्छति, पुत्रीयति, पुत्रकाम्यति / वस्त्रीयति / [वस्त्रकाम्यति / ] स्वस्य किम् ? राज्ञः पुत्रमिच्छति / अचन्तः किम् ? किमिच्छति // (6) सन् तुमो वा / [3 / 4 / 1 / 6 / ] परार्थम् // 1 // भ्वादेरिवेतः सहने तिजोऽनिट् कितश्चिकित्सावचगुपक्षिपेताम् / दान्शानिमानो यङरुच्छुभो भृशाभीक्ष्ण्ययोः सूत्र्यसृसूत्र्यटोऽर्णोः // 3 / 4 / 2 // वृत्तम् // . (6) भ्वादेरिवेतः / [ 3 / 4 / 2 / 1 / ] तुम इति भूप्रभृतेः तुमर्थवृत्तेरिच्छतीत्यर्थे सन् वा स्याद्