________________ 198 पञ्चग्रन्थी व्याकरणम् [पञ्चास्य वस्त्रं पञ्चकः पटः / शत्यः / साहस्रः / पञ्चास्यांशाः पञ्चकं नगरम् / शत्यम् / साहस्रम् // ] (73) न मानमु / [3 / 2 / 9 / 6 / ] अम्यमानमित्यर्थे प्रथमान्ताद् यथाविधि ठादि स्यात् / उ निपातः / नेति लुका सम्बध्यते / द्विगोर्लुग्न स्यात् / प्रस्थः परिमाणमस्य, प्रास्थिकः, शत्यः, [साहस्रिकः, खारीकः,] राशिः / खारशतिकः / खारसाहस्रिकः / वार्षशतिकः / [वार्षसाहस्रिकः / ]. षष्टिर्जीवितमानमस्य षाष्टिकः / साप्ततिकः / द्विषाष्टिकः // 9 // संख्याकसूत्राध्ययनाख्यसंघे पञ्चद्दशद्वर्ग उ डट् च स्तोमे / चत्वादिरिंशं डणि नैंशमहेंद् यज्ञं घ दण्डादि य तौ च पात्रम् / कर्छात्विजीनादि च लाति लुक्कः // 3 / 2 / 10 // पञ्चपात् // (74) संख्याकसूत्राध्ययनाख्यसंघे / [3 / 2 / 10 / 1 / ] संख्यायाः यः क उक्त उपलक्षणत्वान्नकादि कप्वा स तदस्य मानमित्यर्थे सूत्रादौ वाच्ये / अष्टावध्यायाः परिमाणमस्य, अष्टकं पाणिनीयं सूत्रम् / [त्रिकं] काशकृत्स्नम् / अध्ययने पञ्चकः पाठोऽधीतः / सप्तकः / पञ्चावृतयो वाराऽस्य पञ्चकमध्ययनम् / आख्येति संख्याज्ञा / द्वन्द्वैकत्वाद्धस्वत्वम् / कृत्वा पुनर्द्वन्द्वैकत्वम् / स्वार्थे पञ्चैव पञ्चकम् / [पञ्चकाः] शकुनयः / त्रिका: शालङ्कायनाः / षष्टि दिनानि पाकमानमेषां षाष्टिका व्रीहयः / संघे [प्राणिसमुदाये] | पञ्चक: संघः / अष्टकः / तदस्य मानमित्येव सिद्धत्वाद् एतत्पादवर्ज वृत्तम् / एवं ह्यन्ये / पक्तिः / विंशत्यादि शतान्त ठनि निपात्यते, लोकादेव सिद्धेः, . अयुतादिवत् // (75) पञ्चद्दशद्वर्ग उ / [3 / 2 / 10 / 2 / ] पञ्च दश वा मानमस्य वर्गस्य / उ निपातः / श्च कश्च निपात्यते / पञ्चत् पञ्चको वा, दशत् दशको [वा] वर्गः / वर्गः किम् ? पञ्चक: संघः // (76) डट् च स्तोमे / [3 / 2 / 10 / 3 / ] प्रथमान्तान्मानमस्य स्तोमस्येति ड स्यात् / स्तो लघुश्रुतिः / पूगे वा पाठः / पञ्चः, पञ्चदशः स्तोमः / पञ्चदशी रात्रिः // . - (77) चत्वादिरिंशं डणि नैंशम् / [3 / 2 / 10 / 4 / ] इष्टविषयत्वान्निपातस्य ब्राह्मणाख्यायां चत्वारिंशत् त्रिंशद् वोऽध्याया मानमेषामित्यर्थे ऽणि परे निपात्यते / चत्वादिरिंशं, चत्वारिंशम् इत्यर्थः / चत्वारिंशानि शानि वा ब्राह्मणानि कानिचित् / चत्वारिंशकोऽन्यः / (78) अर्हेत् / [3 / 2 / 10 / 5 / ] तदिति द्वितीयान्ताद् अर्हतीत्यर्थे यथाविधि ठादि स्यात् / श्वेतच्छत्रमर्हति, श्वैतच्छत्रिकः / वास्त्रिकः / शत्यः / दैशिनिकः / नेहासामर्थ्यात् / भोजनं शयनं वाऽर्हति // (79) यज्ञं घः / [3 / 2 / 10 / 6 / ] तथा यज्ञीयः // (80) दण्डादि यः / [3 / 2 / 10 / 7 / ] तथा [दण्डा]दिभ्यः / द्विदण्ड्यः / वृत्तं त्विह दण्डोदकौ स्तो मुसलार्घमेधाः कशा च पर्के मधु शीर्षच्छेदे / वधो युगो मेघ कडङ्गरा तु स्थालीबिला स्यादथ दक्षिणारः // 1 //