________________ तृतीयोऽध्यायः द्वितीयः पादः 199 रोऽन्तो कडङ्गरादित्रयं करिति प्रत्याहारः / / (81) तौ च पात्रम् / [ 3 / 2 / 10 / 8 / ] अर्हति तौ घयौ स्तः / पात्रियः / पात्र्यः // (82) कर्छ / [3 / 2 / 10 / 9 / ] [कर्प्रत्याहारान्तर्गत-] कडङ्गरादीन् अर्हते छः / कडङ्गरीयः [गौः / स्थालीबिलीयाः तण्डुलाः / दक्षिणीयो भिक्षुः] // (83) आत्विजीनादि च / [3 / 2 / 10 / 10 / ] निपात्यते / श्लोकोऽत्र आत्विजीनश्च शालीनः कौपीनोऽधष्टाकार्ययोः / सख्ये साप्तपदीनं स्यादात्विजीनादयः स्मृताः // 1 // ऋत्विजमर्हति खञ् / शालामर्हति प्रवेष्टुमधृष्टेऽर्थे / कूपं चाकार्ये / सप्तपदान्यर्हति प्राप्ततया यत्तैरवाप्यते तत् सख्यं चेत् / साप्तपदीनश्च सखा // (84) लाति लुक्कः / [3 / 2 / 10 / 11 / ] परार्थम् // 10 // डतेत्यसौ वा ग्रहणेऽप्यवृद्धेः गौँ दशैकादशरं कुसीदम् / ठड् पारिषद्यः समवैति सेनां ढञ् वा चरे ठट् श्वगणेन पर्पे // 11 // उपजातिः // (84) डतेत्यसौ / [3 / 2 / 11 / 1 / ] डेन पूरणान्तेन लाति गृह्णातीत्यर्थे क: स्यात् / लुक् वासौ डत् / षष्ठेण रूपेण [ग्रन्थ] गृह्णाति षट्कः [देवदत्तः / ] पञ्चको ना / विवक्षार्थत्वाद् इतेर्ग्रन्थविषयं ग्रहणम् // . (85) वा ग्रहणेऽपि / [3 / 2 / 11 / 2] डता लातीत्यर्थे ग्रहणेऽभिधेये स्वार्थे कः स्यात् / डल्लुक् च वा / द्वितीयेन रूपेण [ग्रन्थं] गृह्णाति, द्वितीयकेन / द्विकेन / द्वितीयकम् / द्विकं [ग्रहणम्] / चतुष्कम् / चतुर्थकम् // ... (86) अवृद्धेर्गद्यम् / [3 / 2 / 11 / 3 / ] तद् गीँ निन्द्यं च गृह्णातीति ठञ् / द्विगुणं गृह्णातीति, द्वैगुणिकः / त्रैगुणिकः वधृषि वृद्धि लाति, वार्द्धषिकः / अवृद्धः किम् ? वृद्धि लाति // (87) दशैकादशरं कुसीदं ठड् / [3 / 2 / 11 / 4 / ] रमन्ताद् दशैकादशात् कुसीदं च लातीति ठट् / दश च ते एकादश चेति ठट् [दशैकादशम् / ] अत एव स दत्ता, दशैकादशिकः // __(88) पारिषद्यः / [ 3 / 2 / 11 / 5 / ] तां समवैतीति ज्यः / (89) समवैति सेनां ठञ् वा / [3 / 2 / 11 / 6 / ] सैन्यः / सैनिक : // (90) चरे ठट् श्वगणेन / [3 / 2 / 11 / 7 / ] श्वगणेन चरतीति ठट् ठञ् वा / श्वागणिकः / [श्वागणिकी // ] (91) पर्पे / [3 / 2 / 11 / 8 / ] चरति ठड् नित्यम् / श्लोकोऽत्र पर्पजालपलव्यासव्यालाश्वत्थाः रथस्तथा / आकर्षपञ्चपादाश्वाः शक्तिघासावितीतरे // 1 //