________________ तृतीयोऽध्यायः द्वितीयः पादः ग्रामो ना वा / / (63) डदर्धाट्ठः / [3 / 2 / 8 / 3] तथा डत्प्रत्याहारपूरणान्ताद् अर्धाच्च ठः स्यात् / पञ्चम उपपञ्चम उपपद्यतेऽस्मै वा दीयते, पञ्चमिकः / द्वितीयिकः / अधिकः // (64) भागाद् य च / [ 3 / 2 / 8 / 4 / ] तथा च ठः / भाग्यम् / भागिकं शतम् / भागिका विंशतिः / भागार्धयो रूपकार्थे रूढिः // (65) बल्वजादि भारं वहत्यावहतीति हर्ता / [3 / 2 / 8 / 5 / ] बल्वजादिभारभूतम् / बल्वजा आदयो यस्य तं भारं वहतीति हरतीत्यर्थे ठण् स्यात् / श्लोकोऽत्र बल्वजकुटजस्थूणामूलवंशाश्मन्निक्षवः / खट्वाऽश्वाऽक्षाश्च चेद् भारास्तदादिर्वा स इष्यते // 1 // बल्वजादीन्. भारभूतान् वहत्यादि बाल्वज इत्यादि / यद्वा बाल्वजभारिक: कौटजभारिक इत्यादि // (66) द्रव्यं क वस्त्रं ठ / [3 / 2 / 8 / 6 / ] तौ वहति कठौ / द्रव्यकः / वस्निकः // (67) पन्नोऽण् च द्रोणम् / [3 / 2 / 87] पच इति कर्तृनिर्देशात् / द्रोणं पचतीति अण् च ढञ् च स्यात् / द्रोणी / द्रौणिकी / द्विद्रोणी सा // 8 // अवहरन्ति च सम्भवतीति तमचितिपात्रत आढकतः ख वा / द्विगुकृतात् खठटौ कुलिजाच्च लुक् भृतिवस्त्रांशतदस्य न मानमु // 3 / 2 / 9 // द्रुतविलम्बितम् // (68) अवहरन्ति च सम्भवतीति तम् / [3 / 2 / 9 / 1 / ] तमिति द्वितीयान्ताद् एतेष्वर्थेषु यथाविधि ठआदिः स्यात् / अन्ति च्छन्दोऽर्थम् / प्रस्थमवहरति, पचति वा, उपसंहरति पचति वा, सम्भवति वा चेदनतिरेक कलयति, प्रास्थिकः / खारीकः // (69) अचितपात्रत आढकतः ख वा / [3 / 2 / 9 / 2 / ] तथा एभ्यः खः वा ठञ् वा / अचितमवहरति, आचितीना / आचितिकी / एवं / [पात्रीणा / पात्रिकी / आढकीना / आढकिकी // ] (70) द्विगुकृतात् खठटौ / [3 / 2 / 9 / 3 / ] द्विगुभूताचितादेः तथा खठटौ वा स्तः / ठञ् च ठलुक् / द्वे अचितेऽवहरति, [सम्भवति, पचति], द्व्याचितीना / द्व्याचितीकी / द्व्याचिती / एवं द्विपात्रीणा / द्विपात्रिकी / द्विपात्री / [द्व्याढकीना / व्याढकिकी / ] द्व्याढकी / (71) कुलिजाच्च लुक् / [ 3 / 2 / 9 / 4 / ] द्विगुकुलिजात् तमवहरति [सम्भवति पचति] खठटौ वा स्तः / ठञ् च लुक् च वाऽतश्च / द्विकुलिजिनी / द्वैकुलिजिकी द्विकुलीजी / द्वैकुलिजिकी // . . (72) भृतिवस्त्रांशतदस्य / [ 3 / 2 / 9 / 5 / ] तत्प्रथमान्ताद् अस्य भृतिर्वस्त्रं मूल्यम् अंशो वेत्यर्थे यथाविवक्षादि स्यात् / पञ्च भृतिरस्य, पञ्चक: [कर्मकर: / ] शत्यः / साहस्रः / खारीकः /