________________ पञ्चग्रन्थी व्याकरणम् द्विगोश्च / खार्या क्रीतं खारीकम् [काकणीकम् / ] द्विखारीकम् / [द्विकाकणीकम् / ] पिदहस्वार्थः // (54) क्रीतं र्टा / [3 / 27 / 2 / ] र्टान्तात् क्रीतमित्यर्थे यथाविधि ठादि स्यात् / प्रस्थेन क्रीतं, प्रास्थिकम् / शतिकम् / शत्यम् / पञ्चखारीकम् / र्टेतिकरणात् किम् ? द्वाभ्यां, क्रीतम् / प्रस्थाभ्यां, प्रस्थैर्वा कीते न, संख्यानवगतेः / अवगतौ स्यात् / दिकम् / मौद्गैः क्रीतं, मौद्दिकम् // (55) जे वापः [3 / 27 / 3 / ] षष्ठ्यन्ताद् वाप इत्यर्थे तथा / उप्यतेऽत्रेति वापः / प्रस्थस्य वापः, प्रास्थिकः सस्यः / [द्रौणिकः / ] खारीकः // (56) पात्राठ्ठट् स्यात् / [ 3 / 27 / 4 / ] तथा पात्रस्य वापः / पात्रिकी भक्तिः // (57) संयोगोत्पातौ हेतुः / [3 / 27 / 5 / ] षष्ठ्यन्ताद्धेतुरित्यर्थे ते स्युः स चेद्धेतुः प्राणिनां शुभाशुभस्य सूचकः / संयोग उत्पातो वाऽद्भुतः स्यात् / शतस्य हेतुर्धनपतिना संयोगः, शत्यः। साहस्रः / शतस्य हेतुर्वा साक्षिस्पन्दनं शत्यम् / [शातिकम् / साहस्रिकम् / ] साङ्ग्रामिकम् [इन्द्रधनुः] / एतौ किम् ? शतस्य निमितं ना // (58) यो व्यज्भ्यानश्वादेः / [ 3 / 27 / 6 / ] षष्ठ्यन्तात् द्व्यचो भ्यसा बह्मवर्चः सगोश्च, तौ हेतौ अस्येत्यर्थे यः स्यात् / धनस्य हेतू तौ धन्यः / स्वर्ग्यः / यशस्यम् / आयुष्यम् / ब्रह्मवर्चस्यः / गव्य [इति गो-]र्यो[ऽची]त्यन्ये / अनश्वादेः किम् ? यथाप्राप्तमेव तः / तनुमध्यमत्र अश्वाश्म गणोमा वर्षा वसु भङ्गा / / उर्णापि च संख्या मानानि गणोऽयम // 1 // आश्विकः / संख्या पञ्चकः / सप्तकः / शत्यः / मानानि - प्रास्थिकः / खारीक: // (59) पुत्रात् / [ 3 / 27 / 7 / ] तथा / पुत्र्यः // (60) छः / [ 3 / 27 / 8 / ] तथा / पुत्रीयः // 7 // डिः सर्वभूमेः पृथिवीत ईशज्ञातोऽप्यणत्रैरुपदायवृद्धिः / तच्छुल्कलाभादपि दीयते डदर्धाट्ठ भागाद् य च बल्वजादि / भारं वहत्यावहतीति हर्ता द्रव्यं क वस्नं ठ पचोऽण् च द्रोणम् // 3 / 28 // षट्पदी // (61) डिः सर्वभूमेः पृथिवीत ईशज्ञातोऽप्यण् / [3 / 2 / 8 / 1 / ] डिरिति सर्वभूमौ पृथिव्यां चेश्वरो विदितो वापि शब्दात् तयोर्हेतुः संयोग उत्पातो वेत्यर्थयोरण स्यान्न ठञ् / सार्वभौमः / पार्थिवः // (62) अत्रैरुपदायवृद्धितच्छुल्कलाभादपि दीयते / [ 3 / 2 / 8 / 2 / ] अत्र एरिति अत्रास्मै वा दीयत इत्यर्थे / तदिति प्रथमान्ताद् यथाविधि ठादि स्यात् तत्प्रथमान्तं चेदुपदा उत्कोचो वा। आयो वा ग्रामादौ स्वामिग्राह्यो भागः / दत्तातिरिक्तोत्तमर्णग्राह्या वृद्धिर्वा / रक्षानिर्देशों [राज] भाग: शुल्कं वा / मूल्यातिरिक्तो लाभो वा स्यात् / पञ्चात्रास्मै वोपदीयते पञ्चकः / शत्यः / साहस्रः /