________________ तृतीयोऽध्यायः द्वितीयः पादः 193 * चूडास्वर्योत्थापनतोऽण्यच्छ देवव्रतादितच्चरति डिन् / ड्वुश्चाष्टाचत्वारिंशत इञ्यश्चतुर्मासात् // 3 / 2 / 4 // (20) चूडास्वर्योत्थापनतोऽण्यच्छ / [ 3 / 2 / 4 / 1 / ] ह्यन्तणार्थं न एते प्रयोजनमस्येत्यर्थे क्रमेण अण्यच्छाः स्युः / द्वितयेऽनुष्टुप् अन्ये तु वृत्तम् चूडा च द्वादशाहश्च श्राद्धश्च मन्थदण्डयोः / विशाखाषाढतः स्वर्ग्यकाम्यायुषि धनं यशः // 1 // उत्थापनारोहणवेशनं संप्रानोरनो रोहणवाचनावु- / पस्थानं वारभणानादेः समापिपूरः विशिप्रपदेश्च // 2 // चौड: / क्रमेण वैशाखो मन्थः / आषाढो दण्डः / तथा स्वर्ग्यः / [काम्यः / आयुष्यः / धन्यम् / यशस्यः / ]. तथा, उत्थापनीयम् / [अनुप्रवचनीयम् / ] सम्प्रानोः परं वेशनम् / संवेशनम् / [प्रवेशनम् / अनुवेशनम् / ] तथा, अन्वारोहणम् / अनुवाचनम् / संवेशनम् इत्यादि / अनादेः / नजिता अनन्यपूर्वपदानाप्यादेः / इनिर्देशात् प्रकृतेः / [व्याकरणसमापनं प्रयोजनमस्य] व्याकरणसमापनीयम् / प्रपापूरणीयम् / गृहप्रवेशनीयम् / अश्वप्रपदनीयम् / प्रासादारोहणीयम् / पृथग्वेशनाय पूर्वपदार्थे / आकृतिगणाश्चामी // (21) देवव्रतादितच्चरति डिन् / [3 / 2 / 4 / 2 / ] तदित्येतच्चरतीत्यर्थे डिन् स्यात् / देवव्रती / तिलवती / अवान्तरदीक्षी / आकृतिगणः // ... (22) वुश्चाष्टाचत्वारिंशतः / [3 / 2 / 4 / 3 / ] वुडिन् च स्याद् अष्टाचत्वारिंशतं वर्षादीनि व्रतं चरतीत्यर्थे / अष्टाचत्वारिंशकः / अष्टाचत्वारिंशी // (23) इज़्यश्चतुर्मासात् / [ 3 / 2 / 4 / 4 / ] चतुर्मासेषु भवतीति चातुर्मास्यं, तानि चरतीत्यर्थे इझ्यौ स्त / ड्योश्च इलुक् च ज्य: स्यात् / चातुर्मासी / चातुर्मासकः / इदादेजर्थः / अन्यस्त्वाहइड्य इति वाच्ये ज्यग्रहणमनादैजर्थम् / चातुर्मासी // 4 // . भूर्तच्च मासाद् यखौ वयोर्यो द्विगो षषो वा ण्य ठखत्समायाः / द्विगोश्च संवत्सररात्र्यहोभ्यः लुग्वर्षतः प्राणिनि ठः शताद् यः / आदमाने तु ठडर्धकंसात् त्रिंशड्ड्वुकोऽनाम्नि तु विंशतेः कः // 35 / 2 // षट्पदी // ___ (24) भूर्तच्च मासाद् यखौ वयः / [ 3 / 2 / 5 / 1 / ] भूरिति तं भूतो भावी, तस्मै भृतोऽ धीष्टः, तेन निवृत्तौ, ऊर्, यथासम्भवम्, एष्वर्थेषु विधिः / तदिति द्वितीयान्तम् / मासं भूतो भावीति यखौ स्तः, वयश्चेद् गम्यते / मास्यः / मासीनः / वयः किम् ? मासिको व्याधिः // . (25) यो द्विगोः / [3 / 2 / 5 / 2 / ] मासात् तथैव / द्विमास्यः / अध्यर्धमास्यः / अर्धपञ्चमास्यः // (26) षषो वा ण्य / [3 / 2 / 5 / 3 / ] षडादेर्मासात्तथैव ण्य च य वा ठञ् च यज्ञे / षाण्मास्यः / षण्मास्यः / षाण्मासिकः / / पञ्च.-२५