________________ 192 पञ्चग्रन्थी व्याकरणम् (7) कार्मुक / [3 / 2 / 2 / 1 / ] कर्मणेऽलमित्युकञ् // (8) काले कार्यं देयं भववत् / [3 / 2 / 2 / 2 / ] कालवाचिसप्तम्यन्तात् कार्य दीयत इत्यर्थे यो भाव इव प्रत्ययाः स्युः / मासे कार्यं दीयते च मासिकम् / त्रैमासिकम् / प्रावृषेण्यम् / सायन्तनम् // (9) प्रवासतोऽण्ङिर् / [ 3 / 2 / 2 / 3 / ] ङिर् सप्तम्यन्तात् प्रवासादेस्तथाऽण् स्यात् / अत्रोपजाति: प्रवाससंग्रामनिवेशनाष्ठबि पथस्थलादेः मधुके मरीचे / संघाततीर्थाग्निपदानि नित्यो व्युष्टेश्च निक्रामणपैलुमूलम् // 1 // प्रवासे कार्य दीयते वा प्रावासम् / पथः स्थलादेष्ठजीतैवविषये / स्थलपथं गच्छति, तेन हतो वेत्यर्थे स्थालपथं मधुकं मरीचं वा / स्थालपथिकोऽन्यः / निष्कामणेति निष्क्रमण इत्यर्थः / ' (10) र्टः पथा कथा च हस्त्यौ / [3 / 2 / 2 / 4 / ] टान्ताभ्यां यथा कथा च हस्ताभ्यां प्रत्येकं कार्यं दीयत इत्यर्थे क्रमेण यो निपात्यते // (11) शोभत इति / [3 / 2 / 25 / ] अर्थे टान्तात् ठञ् / कर्णवेष्टकाभ्यां शोभते, कार्णवेष्टिकिकं मुखम् / वास्त्रयुगिकं शरीरम् // (12) कर्मवेषाद् यः / [3 / 2 / 2 / 6 / ] तथा कर्मण्यं शौर्य, वेष्यो नटः // 2 // सोऽस्य प्राप्तः समयादृत्वाद्यण कालतो य दीर्घः / ' प्रयोजनमेकागाराच्चौरे लुक् स्वस्तिवाचनादिभ्यः // 3 // 2 // 3 // (13) सोऽस्य प्राप्तः समयात् / [3 / 2 / 3 / 1 / ] स इति प्रथमान्तात् समयात् प्राप्तोऽस्येत्यर्थे ठञ् स्यात् / सामयिकं कार्यम् / उपनतकालम् [इति] सामयिकशब्दार्थः // (14) ऋत्वाद्यण् / [3 / 2 / 3 / 1 / ] तथैव / स तु प्राप्तोऽस्य, आर्त्तवं पुष्पफलम् / औपवस्त्रम् / प्राशित्रम् / तृच्, आकृतिगणः // . (15) कालतो यः / [3 / 2 / 3 / 3 / ] तथा / काल्यस्तापः / [काल्यं] शीतम् वा / / (16) दीर्घः / [3 / 2 / 3 / 4 / ] कालो दीर्घोऽस्येति ठञ् / कालिकमृणम् // (17) प्रयोजनम् / [3 / 2 / 3 / 5 / ] अस्येत्यर्थे प्रथमान्तात् ठञ् / इन्द्रमहः प्रयोजनमस्य, ऐन्द्रमहिकः / गाङ्गामहिकः // (18) एकागाराच्चौरे / [3 / 2 / 3 / 6 / ] ऐकागारिक: चौरः / चौरे किम् ? एकागारं प्रयोजनमस्य भिक्षोः // (19) लुक् स्वस्तिवाचनादिभ्यः / [3 / 2 / 3 / 7 / ] एते प्रयोजनमस्येत्यर्थे ठञ् लुक् रात् / स्वस्तिवाचनम् / शान्तिवाचनम् / पुण्यवाचनम् / आकृतिगणः // 3 //