________________ तृतीयोऽध्यायः द्वितीयः पादः 191 लोके, सर्वलोके च, वित्तो वेदित इत्यर्थे र्ड इति श्लेष्मादीनां शमनं कोपनं चेत्यर्थे / सदार्ह इति नित्यं छेदादीनहतीत्यर्थे / कर्षं केवलम् / प्रविप्रादपि / प्रकर्षम् / [विप्रकर्षम् / ] संवेः प्रयोगम् / संप्रयोगः / [विप्रयोगः / ] सुखरात्रादीन् पृच्छतीत्यर्थे / [सौखरात्रिकः / सौखशाय्यिकः / सौनातिक: / सौखशायनिकः / ] अतोऽसंख्यादेः आक्रन्दादीन् गच्छतीत्यर्थे / माथः पथिकपर्यायः / दाण्डमाथिकः / प्रतिपथं गच्छन्तीति च ढौ स्तः / नानार्थत्वात् / प्रतिपथिकः / [प्रातिपथिकः / ] पर्याप्तादीन् आहेत्यर्थे / तं रक्षति उञ्छति वेत्यर्थे / सांनिवेशिकः / बादरिकः / मृगादीन् हन्तीत्यर्थे शफतत्पर्यायविशेषयोर्ग्रहणार्थम् / हारिणिकः / सौकरिकः / नैयङ्ककः / तथा शाकुनिकः / मायूरिकः / तैत्तिरिकः / नैमिषिक: / शाफरिकः / परिपन्थं हन्ति तिष्ठति वेत्यर्थे / [पारिपन्थिकः / ] समाजार्थान समवैति / सामाजिकः / सामहिकः / सामवायिक / सांनिवेशिकः / पदादीन गृह्णातीत्यर्थे / पादिकः / सादि वा / पौर्वपदिकः / [औत्तरपदिकः / ] एवं धर्ममधर्म वा चरतीत्यर्थे / टारिति तृतीयान्तात्, चरित भक्षयति गच्छतीति वेत्यर्थे / [धार्मिकः / अधार्मिकः / [दध्ना संस्कृतं भुङ्क्ते] दाधिकः / [शकटेन गच्छति] शाकटिकः / र्टान्तादेव / अक्षैर्जयति दीव्यति, जितोऽर्थो वा [आक्षिकः / ] कुद्दालेन खनति [कौदालिक: / ] रुच्छन्दोऽर्थम् / करणे र्टान्तेन हनखनजितसहोऽम्भओजो वर्तत इत्यर्थे निपातः / परिपूर्वं मुखं पार्वं च वर्तत इत्यर्थे त एवादिन् अनुप्रतिपूर्वान् लोम. ईप कूलान् अवर्तत इत्यर्थे क्रियाविशेषणे रम् / स इति प्रथमान्ताद् भक्ष्यवाचिनः, एरिति चतुर्थी तस्मै हितमित्यर्थे / अपूपभक्षणं हितमस्मै आपूपिकः / शाष्कुलिकः / मौदकिकः / हितार्थक्रिया च तद्धितवृत्तावन्तर्भवति / दिष्ट अस्ति नास्ति एभ्यः प्रथमान्तेभ्योऽस्य मतिरित्यर्थे / दिष्टमिति मतिः / प्रमाणानुपातिनी अस्य दैष्टिकः / [आस्तिकः / नास्तिकः / ] अध्ययनाय निषिद्धे देशे काले वर्तत इत्यर्थे / श्माशानिकः / चातुर्दशिकः / निकटादिषु वृक्षमूले च वसतीत्यर्थे / ङौ इति सप्तम्यन्तेषु कठिनादिषु / वांशकठिनिकः / [प्रास्तारिकः / सांस्थानिक: / ] पणेन चेद् व्यवहरतीत्यर्थे व्रती चेत् / [आपूपिकः / मौदकिक: / ] ङः इति षष्ठ्यन्ताद् अवक्रयः पिण्डकः / शुल्कशालायाः अवक्रयः, शौल्कशालिकः / आकरिकः / आपणिकः / तस्य धर्म्य न्याय्यमिति च / शौल्कशालिकम् / [आकरिकम् / आपणिकम् / ] कोपादिचिह्नाय ललाटं पश्यति सेवको योऽनपश्लिष्टः, कार्येषु वा नोपयुज्यते स, लालाटिकः [सेवकः / ] कुक्कुटिपातोऽल्पदेशः कुक्कुटी, तां पश्यति, पादपाते चक्षुः संयम्य गच्छतीत्यर्थे / दाम्भिकक्रियायां वा कुक्कुटीमाचरतीति वा / कौक्कुटिको भिक्षुः / अत्रेति कुल्माषादौ साधुरित्यर्थे / अत्राञ् आकालिको टिद् वा // 12 // (4) तद्गन्ता ठट् च पथः / [ 3 / 2 / 1 / 4 / ] तं पन्थानं गच्छतीत्यर्थे ठट् स्यात् / पथिकी [स्त्री] || (5). पान्थः / [ 3 / 2 / 1 / 4 / ] तथा नित्यो णो निपात्यते // (6) ऽलं न वा योग्यम् / [3 / 2 / 15 / ] योगायालं प्रभवतीत्यर्थे यो न वा ठञ् वा / योग्यम् / यौगिकम् // 1 // कार्मुक काले कार्यं देयं भववत् प्रवासतोऽण्डिर् टः / पथा कथा च हस्त्यौ शोभत इति कर्मवेषाद् यः / 3 / 2 / 2 /