________________ पञ्चग्रन्थी व्याकरणम् आहेतिपर्याप्तप्रभूतिनित्यशब्दं च माशब्दमुकार्यशब्दम् / रक्षोञ्छती तं मृगपक्षिमत्स्यान् हन्तीति तिष्ठेत् परिपन्थमत्र // 8 // समवैति समजार्थान् गृहणाति सादि वा पदम् / प्रतिकण्ठललामार्थं धर्माधर्मं चरति टार् // 9 // जयन्ति दीव्यन्ति जितं खनन्ति सहोऽम्भओजोभिरु वर्तते च / परेर्मुखं पार्श्वममुं प्रतिस्तं लोमेपकूलाद्धितमेर्सभक्ष्याः // 10 // दिष्ट्यास्ति नास्त्यस्त्यस्य मतिस्त्वदेशः कालेष्वधीते निकट स्मशाने / अत्रोपकोशावसथे वसन्ति वृक्षादिमूले कठिनान्ततो डौं / प्रस्तारसंस्थानपणेति चेत् तं ङोऽवक्रयो धर्म्यमथेति गाथा // 11 // लालाटिक: क्रौक्कुटिकोऽत्र साधुः कुल्माषमांसौदनवेणुसक्तू संग्रामसंघातगुडानि वासोऽपूपे प्रवासेऽप्युपवास एव // 12 // तदिति द्वितीयान्तात् / संशयं करोति, स्थाण्वादिः संशयं गतो वाऽऽपन्नो वाऽभ्रादिः, सांशयिकः, स्थाणुर्ना वा / तुरायणादीन् वर्त यतीत्यर्थे तौरायणिकः / [चान्दायणिकः / पारायणिकः / ] एवं वाक्यार्थेषु / शब्ददर्शनं करोत्येव / तद् रमन्तं योजनं गच्छति // 1 // क्रोशयोजनात् परं शतं गच्छति, विहरति वा, अभिगमनमर्हति वा, तद्गन्तुं शक्तो वा / कान्तारादिपूर्वपदं पन्थानं गच्छति, तेनाहृतो वा / आद्यकृत्यर्थः / यज्ञे न्विति सप्तम्यन्तात् / यज्ञवाचिनो दीयते इत्यर्थेऽस्येति षष्ठ्यन्तस्य दक्षिणा वा / अग्निष्टोमे दीयते आग्निष्टोमिकम् / तस्य दक्षिणा, आग्निष्टोमिकी / द्वैवाजपेयकम् / [द्वैवाजपेयिकी / ] लमिति चतुर्थ्यन्तात् प्रभवतीत्यर्थेऽत्र वृत्ते निवेः सर्गः उपाद् वासः प्राच्च उपवासः / वासाद्यानां हान्ताः समः परे संवासेव्यादि // 13 // निसर्गाय प्रभवति नैसर्गिक इत्यादि / गोदानादिरुचः / अध्ययनाय व्रतं तदुच्यते / रमन्तादतस्तं चरतीति / गौदानिकः / [आदित्यवतिकः / माहानामिकः / ] अस्त्येषां वा ब्रह्मचर्यम् / गौदानिकम् / [आदित्यवतिकम् / माहानामिकम् / ] आद्याकृत्यर्थः / काल इति प्रथमान्तात् कालवाचिनोऽस्येति पष्ठ्यर्थे ब्रह्मचर्ये वाच्ये / तथा रमिति द्वितीयान्तात् कालात् पप्ठ्यर्थस्य शश्वद् विनि ब्रह्मचर्ये गम्यमाने / मासोऽस्य ब्रह्मचर्यस्य मासिकं ब्रह्मचर्यम् / द्वितीयेऽर्थे, मासस्य बटोर्ब्रह्मचर्य मासिको बटुः / द्वैमासिकः / रमे इति द्वितीयाचतुर्थ्यन्ताद् यथासम्भवं भूताय वर्षे, तं भूतो भावी तस्मै भूतोऽधीष्ट इत्यर्थे / भूतः स्वसत्तया व्याप्तः कालः / भावी तादृगेवानागतः / भृतो वेतनेन क्रीतः / सत्कृत्य व्यापारितोऽधीष्टः / मासं भूतो भावी वा मासिको व्याधिः / मासाय भृतोऽधीष्टः मासिकः कर्मकरः, उपाध्यायो वा / अर्चेति तृतीयान्तात् कालान्निवृत्तिरित्यर्थे / रेफो भूरिति प्रत्याहारार्थम् / अह्ना निवृत्तम् आह्निकम् / आर्धमासिकम् / टान्तात् कालाज्जय्याद्यर्थे / मासेन शक्यते जेतुं मासिको व्याधिः / द्वैसांवत्सरिकः / एवं [मासेन] लभ्यः पट: मासिकः [पट:] / [मासेन] कार्यं [मासिकं] चान्द्रायणम् / [मासेन] सुकरः प्रासादः [मासिकः प्रासादः / ] अत्रेति