________________ [ // अथ तृतीयाध्यायः द्वितीयः पादः // ] ठञ् सङ्ख्यादेश्चार्हादशतलुकः संशयादितो नाना / तद्गन्ता ठट् च पथः पान्थो डेंग्लं न वा योग्यम् // 3 / 2 / 1 // आर्या // (1) ठञ् / [ 3 / 2 / 1 / 1 / ] इत्यापादम् || (2) संख्यादेश्चार्हादशतलुकः / [3 / 2 / 1 / 2 / ] अर्हतीति वक्ष्यति / तमभिज्ञाप्य येऽर्थास्तेष्वतः परं संख्यादेः शतादन्यस्मात् केवलाच्च लुगन्ताद् यथाविधि प्रत्ययः स्याद् [इति] अधिकृतं वेदितव्यम् / मासिकम् / द्वैमासिकम् / आर्हात् किम ? सेनां समवैति सैन्यः / द्विसैनिकः / अशतात् किम् ? द्विशतम् / अलुगन्तात् किम् ? द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् / तेन क्रीतम् / द्विशौपिकम् // . (3) संशयादितो नाना / [ 3 / 2 / 1 / 3 / ] बहुलार्थो ठञ् / संख्यादेः केवलाच्चार्हतः परं केवलात् / वृत्तत्रयं षट्पदी च वृत्तविताने प्रथमं वितानं वृत्तं च षट्पादपि वृत्तमत्र तत्संशयात् कर्तृगते तुरायणं चान्द्रायणं वर्तयते करोति वा / पारायणं' चेति तु शब्ददर्शनं तद् योजनं गच्छति कोशयोजनात् // 1 // शतं विहाराभिगमार्हशक्तिषु कान्तारवार्युत्तरशङ्कजङ्गला / अजास्थलाद्यादि प्रथमेन चाहृतं यज्ञे तु दानं यदि वाऽस्य दक्षिणा // 2 // १ऽलं निवेः सर्ग उपाच्च वासः प्राह्यामधातौ समा निपातः / स्यात्यादिनो योग परावनाभाः संष्येषसंतामुशक्तयो च गौः // 3 // गादानमादित्यव्रतं महानाम्न्यादीश्चरन्त्यस्य च ब्रह्मचर्ये / कालो रमेभूतरितोऽप्यधीष्टः भाव्यर्चनिवृत्तरथापि युज्यम् // 4 // र्ड: श्लेष्मवातादथ सन्निपातात् पित्तात् समामोऽर्हति च्छेदभेदम् / कर्प प्रविप्रादपि शीर्षच्छेदं संवेः प्रयोगं त्वथ नर्त्तदोहम् // 5 // विरगं च विरागः स्यात् संप्रश्नं चेति पृच्छति / सुखरात्रं सुखशाय्यं सुस्नातं च सुखाशयम् // 6 // गच्छत्याक्रन्दमाथान्तं पदव्यनुपदं तथा / परदाराद् गुरुतल्पं ढबकौ तु प्रतिपथः // 7 //