________________ 188 पञ्चग्रन्थी व्याकरणम् (122) यवादेर्यः / [3 / 1 / 14 / 2 / ] तथा / यव्यम् / प्राण्यम् / गार्दभ्यम् / औष्ठ्यम् / चक्षुष्यम् / अनुष्टुबत्र यवप्राण्यङ्गमाषेभ्यस्तिलब्रह्मवृषादपि / तथा रथखलाभ्यां च हितेऽर्थे यो विधीयते // 1 // न राजब्राह्मणादाचार्यवृष्णः हितेच्छोः / तेभ्यो वाक्यमेव च / राज्ञे हितम् / [ब्राह्मणाय हितम् / आचार्याय हितम् / वृष्णे हितम् // ] (123) पितः / [3 / 1 / 14 / 3 / ] तथा [प्थ्योऽजावे] स्यात् / अजथ्या / अविथ्या / पिदस्त्यर्थः // (124) णो वा सर्वात् / [3 / 1 / 14 / 4 / ] तथा छो वा / सार्वः / सर्वीयः // (125) जनात् खः / [3 / 1 / 14 / 5 / ] तथा सर्वादेर्हितः कर्मधारयात् / सर्वजनीनः / हितः किम् ? सर्वजनीयः // (126) महतश्च ढञभितः / [3 / 1 / 14 / 6 / ] तथा सर्वाच्च जनात् / माहाजनिकः / सार्वजनिकः / भितः किम् ? महाजनीयः / / (127) खः पञ्चविश्वात् / [ 3 / 1 / 14 / 7 / ] तथा पञ्चजनीयः / [विश्वजनीयः / / ] (128) चरकाच्च माणवात् खञ् / [3 / 1 / 14 / 8 / ] हिते / चारकीणः // (129) स्वात्मभोगादिति / [3 / 1 / 14 / 9 / ] तथा / आत्मनीनः / मातृभागीणः / भोगो देहः / विवक्षार्थत्वादिते!ऽनित् / भोगान्ताच्चैव विधिः / पाद असुप् नवमः / पञ्चपादियं गाथा // 14 // [इति श्रीबुद्धिसागराचार्यकृतपञ्चग्रन्थ्यां संस्कृताधिकारे तृतीयाध्याये प्रथमः, आदितो वा नवमः, पादः 1]