SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः प्रथमः पादः 187 तु नाभ्यं [तैलम्] / नङ् स्याद् ऊध डिदन्तार्थः / ऊधन्यः [कूप:] / कम्बलम् / अत्र नाम्नि स्यात् / कम्बल्यम् / ऊर्णापलशतम् / श्वन्, शुन् स्याद्, ऊद् वा / शुन्यम् / शून्यम् / गोर्योऽचि सिद्धे तदन्तार्थम् / सुगव्यम् / द्विगव्यम् / तथा ओः / शङ्कव्यं दारु / पिचव्यः कार्पासः / चरव्यास्तण्डुलाः // *[(113) पृथुकादितो वा / [3 / 1 / 13 / 9 / ] यः स्यात् / पृथुकादयोऽपूपाद्यन्तर्गताः / तेभ्योऽन्नविकारार्थेभ्यः / पृथुक्यम् / पृथुकीयम् / अपूप्यम् / अपूपीयम् / तण्डुल्यम् / तण्डुलीयम् // (114) तस्मै विकारे प्रकृतिस्तु / [3 / 1 / 13 / 10 / ] तस्मै तदर्थं विकारे विकृतिवाचिने सति प्रकृतिस्तु प्रकृतावभिधेयायां य: स्यात् / अङ्गारीयाणि काष्ठानि / प्राकारीया इष्टकाः / शङ्कव्यं दारु / पिचव्यः कार्यासः // __(115) चर्माञ् / [3 / 1 / 13 / 11 / ] चर्मणो विकृतिवाचिनः प्रतिपदिकाद् अञ् स्यात् / वारधं चर्म / संगव्यं चर्म / वारत्रं चर्म // . (116) उपानहाघ्योऽथर्षभात् / [3 / 1 / 13 / 12 / ] उपानह ऋषभ इत्येताभ्यां तदर्थं विकृतेः प्रकृतावित्येतस्मिन् विषये ज्यः स्यात् / औपानह्यो मुञ्जः / आर्षभ्यो वत्सः / चर्मण्यपि / औपाना चर्म // (117) छदिर्बलेढञ् तु / [3 / 1 / 13 / 13 / ] आभ्यां तदर्थं विकृतेः प्रकृतावित्येतस्मिन् विषये / छादिषेयाणि तृणानि / बालेयास्तण्डुलाः / चर्मण्यपि / छादिषयं चर्म // (118) सः स्यात् / [3 / 1 / 13 / 14 / ] स्यादिति सम्भावनायां लिङ् / तदस्मिन् स्यादित्यर्थे सम्भावनेऽलमिति चेदित्यादिवाच्ये ढञ् स्यात् / प्राकारीया इष्टकाः / प्रासादीयं दारु // .. (119) परिखा / [3 / 1 / 13 / 15 / ] तदस्मिन् स्यादित्यर्थे परिखाशब्दात् ढञ् स्यात् / पारिखेया भूमिः // (120) ङि ङस्तत् / [3 / 1 / 13 / 16 / ] ङीति सप्तमी / . ङसिति षष्ठी / तदस्मिन् तदस्य स्यादित्यर्थे ढञ् स्यात् / प्राकारीयो देशः / प्रासादीया भूमिः // 13 // हितं चतुर्थ्यन्ताद् यवादेर्यः पितो णो वा सज्जनात् खः / महतश्च ठाभितः खः पञ्चविश्वा चरकाच्च माणवात् / खञ् स्वात्मभो- ] गादिति पाद पञ्चपात् // 3 / 1 / 14 // (121) हितं चतुर्थ्यन्तात् / [ 3 / 1 / 14 / 1 / ] [तस्मै] हितमित्यर्थे यथाविधि छयौ स्तः / वत्सेभ्यो हितो वत्सीयो गोधुक् / गव्यम् / पटव्यम् / पृथुक्यम् // . The text-portion in square brackets is reconstructed by the Editor, since it is missing in all the four Mss. (from 114 to 120 H.)
SR No.004311
Book TitlePanchgranthi Vyakaranam
Original Sutra AuthorN/A
AuthorN M Kansara
PublisherB L Institute of Indology
Publication Year2005
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy