________________ 186 पञ्चग्रन्थी व्याकरणम् कण्टकाः / कर्ता किम् / चौरं विध्यति धनुषा / कर्ता व्यधनक्रियाया जनकः स्वतन्त्रो गृह्यते / आधीयतेऽनेन आधानी, समिधामाधानीति षेण्यण् / सामिधेन्यो [मन्त्रः] / सामिधेनी ऋक् / आङीति आङन्ता धेनुष्या / धेनोः षुग् / पीतदुग्धेति प्रसिद्धा / जनीं वधू वहन्ति जन्याः, जामातुर्वयस्यानां नाम / गृहपतिना युक्तो गार्हपत्योऽग्निः / नाम्न्येव // (103) अञ्यञिोऽण् सङ्के लक्षणघोषाङ्कात् / [3 / 1 / 12 / 9 / ] अञ्यञ्इअन्तानां सङ्घादिरित्यर्थेऽण् स्यात् / वेदानां सङ्घादिः वैदः / गार्गः / दाक्षः / वाऽपत्याद् वुञ् // . (104) शाकलतो वा / [3 / 1 / 12 / 10 / ] शाकलेन प्रोक्तं वेदं विदन्ति, शाकलाः / [तेषां सङ्घः शाकलः, शाकलकः / शाकलं लक्षणम् / शाकलकं लक्षणम् / शाकलो घोषः / . शाकलको घोषः / शाकलोऽङ्कः / शाकलकोऽङ्कः] // 12 // [कौपिञ्जलाद्धास्तिपदाद् वहिवादग्नीध्रपत्रादण्यरथाच्च सादेः / ] छो यो गवाद्योः पृथुकादितो वा तस्मै विकारे प्रकृतिस्तु चर्माञ् / उपानहायोऽथर्षभाच्छदिर्बलेढब्तु सः स्यात् परिखा डिङस्तत् // 3 / 1 / 13 // षट्पदी // (105) कौपिञ्जलाद्धास्तिपदात् / [3 / 1 / 13 / 1 / ] [कौपिञ्जल हास्तिपद] तयोः स्वमित्यण् / कौपिञ्जलः / [हास्तिपदः / ] न अपत्याद् वुञ् // (106) वहित्रात् / [3 / 1 / 13 / 2 / ] वहतृ च / इन् निपात्यते / अण् स्यात् / वोढुः स्वं वाहित्रम् / सांवहित्रम् // (107) अग्नीध्र / [3 / 1 / 13 / 3 / ] अग्नीध् तस्य स्वं वेश्म चेद्रः स्याद्, अण् चैके / अग्नीधः शरणम् अग्नीध्रम् आग्नीधं वा निपात्यते // . (108) पत्रादण् / [3 / 1 / 13 / 4 / ] नवाचिनः स्वमित्यण् / अश्वस्येदं वहनीयम् आश्वम् / औष्ट्रम् / औष्ट्रपतम् // ___ (109) य रथाच्च / [3 / 1 / 13 / 5 / ] यानपूर्वाद् रथात् स्वेऽण् / आश्वरथम् / रासभरथं चक्रम् / छ च / रथस्य स्वं रथ्यं [चक्रम्] // ] (110) सादेः / [3 / 1 / 13 / 6 / ] सप्राक्पदात् तथा / सादेरापादम् / [परमरथ्यम् / उत्तमरथ्यम्] // ___(111) छः / [3 / 1 / 13 / 7 / ] अतः परेष्वर्थेषु / (112) यो गवाद्योः / [3 / 1 / 13 / 8 / ] अतः परेष्वर्थेषु गवादेरुवर्णान्ताच्च य एव स्यात् / इहोपपाति: गोस्रग्घविः कूपपदाक्षराणि बहिर्युगौ नाभि नभं नधः / विषाष्टिके कम्बलनाम्नि मेधा स्याच्छवन् शुनूद्वा च खरस्खदो वृत् // 1 // गवे हितं गव्यम् / श्रव्यम् / नाभि नभं च / नभ्यं काष्ठम् / अञ्जनम् / अक्षश्च / देहांशाचे