________________ तृतीयोऽध्यायः प्रथमः पादः 185 (95) ठञ् सीरहलात् / [3 / 1 / 12 / 1 / ] तस्य स्वे / सैरिकम् / [हालिकम् / ] द्वैहलम् / द्वैसीरम् // (96) वोढा स न / [3 / 1 / 12 / 2 / ] तयोर्वोढेत्यर्थे च स न स्यात् / सीरस्य वोढा सैरिकः / द्वैहलिकः / [वैसीरिकः / ] द्विगोरप्यलुगर्थं स न / (97) शकटादण् / [ 3 / 1 / 12 / 3 / ] वोढाऽस्येत्यर्थे / शाकटः, द्वैशाकट: गौः // (98) ढग्यौ तु धुरः / [3 / 1 / 12 / 4 / ] वोढेत्यर्थे / धौरेयः / धुर्यः // (99) अदेकात् / [3 / 1 / 12 / 5 / ] एकधुरे वोढेति अः स्यात् / एकधुरः // (100) खः / [3 / 1 / 12 / 6 / ] तथा / एकधुरीणः // (101) उत्तरसर्वात् स्याद् दक्षिणतः / [3 / 1 / 12 / 7 / ] एभ्यो धुरस्तथा / उत्तरधुरीणः / सर्वधुरीणः / दक्षिणधुरीणः // ] (102) युग्यादीनि / [3 / 1 / 12 / 8 / ] युग्यादीनि बहुलार्थं यान्तानि निपात्यन्ते / वृत्तत्रयं चेह युग्यस्य प्रासङ्ग रथस्य वोढा सीताहलाभ्यां समितं च कर्षः / दृश्यं पदं चात्र वशं गतः समानोदरेऽथो शयितः सतीर्थे // 1 // वसेत् प्रियो वा हृदयस्य बन्धनं धर्मेण प्राप्योऽर्थपथाऽनपेतः / न्यायाच्च लब्ध्वा तु धनं गणं च मूलैरनाम्यो वयस्य च तुल्यः // 2 // अस्यादृढं मूलमुद्गमाषाः नौतुलाभ्यां विषेण समिते च मध्ये / कर्ता च तद्विध्यति सामिधेन्याङि धेनुष्यजन्याग्निःषुक् तु गार्हपत्यः // 3 // .. युगादीनां वोढा तान् वहतीत्यर्थे यः स्यात् / युग्यः, [प्रासङ्ग्यः, रथ्यः] गौः / प्रासङ्गं वत्सदमनकाष्ठम् / सीतायाः सीतया वा समितं हलस्य कर्ष इत्यर्थे / सीत्यः / हल्यः / तदन्ताच्च / परमसीत्यः / द्विहल्यः / पदं दृश्यतेऽत्रेत्यर्थे पद्यः कर्दमादिः / एवं सूक्तोक्तविभक्त्यन्तात् / वशं गतः वश्यः / समानोदरे शयितः समानोदर्यः / सोदर्यो वा / सतीर्थे वसेत् / समानतीर्थे वसतीति सतीर्थः / हृदयस्य प्रियो वा, बन्धनं वा / हृद्योदेशः, [हृद्यं] वनं च / इष्टार्थत्वान्निपातस्य प्रायो नाम्नीतः / नात्र / हृदयस्य प्रियः पुत्रः / हृदस्य बन्धनो हृद्यो वशीकरणमन्त्र एव / धर्मेण प्राप्यः धर्म्यः / अर्थपथन्यायाच्च धर्माच्चानपेतः / अर्थ्यः / [पथ्यः / न्याय्यः / धर्म्यः / ] धनं गणं च लब्वा / धन्यः / [गण्यः / ] भिस् छन्दोऽर्थम् / मूलैरनाम्योऽनभिभवनीयः / मूल्यः पटः / पटाधुपादानसमानफलः [इत्यर्थः / ] वयसा तुल्य: वयस्यः / मूलेन तुल्यः / मूल्यः पटः / अनाम्नि तु, मूलेन नाम्यं काष्ठम् / वयसा तुल्यो रिपुः / मूलमेषामदृढं श्लथम् / मूल्याः मुद्रगाः, माषाः / नौतुलाविषः क्रमेण तार्यसमितवध्येषु / नाव्या नदी / नाव्यं जलम् / तुल्यः पटः / तुलापरिच्छिन्न इव तुल्यो ना / विष्यः / तदिति द्वितीयान्तात् कर्ता विध्यतीत्यर्थे / पद्याः शर्कराः / उरस्याः / पञ्च.-२४