________________ 184 पञ्चग्रन्थी व्याकरणम् तस्याम्नायादि / आथर्वणो निपात्यते / अथर्वणा प्रोक्तो वेद आथर्वणः / तद् वदन्ति, आथर्वणिकाः / तेषामाम्नायादिः आथर्वणः // (85) [ ज्यश्च ] नटतः / [3 / 1 / 10 / 3 / ] तथा नटादीनामाम्नायादिरित्यर्थे त्र्यः / चकारश्चरणा[द् धर्माम्नाया) वीत्यर्थम् / नाट्यम् / औक्थिक्यम् / नटयवादिद्वितये ऽप्यनुष्टुप नटौक्थिकौ च छन्दोगो याज्ञिकबहृचौ यवात् / यवकात् षष्टिकाद्वोमाभङ्गमाषतिलाणुतः // गणौ // 1 // (86) स्वम् / [3 / 1 / 10 / 4 / ] षष्ठ्यान्तात् तस्य स्वमित्यर्थे यथाविध्यणघादी स्तः / उपगोः स्वम् औपगवम् / राष्ट्रियम् // (87) अह्नाप्येऽश्वात् खञ् / [3 / 1 / 10 / 5 / ] एकनाहाऽश्वस्यागमः [इत्यंतदर्थे] / आश्वीनोऽध्वा // (88) अन्नात् / [3 / 1 / 10 / 6 / ] धान्यवाचिनस्तस्य भूः क्षेत्रमित्यर्थ. खञ् / भूः सम्बध्यते / मुद्गानां क्षेत्रं मौद्गीनम् / कौलत्थीनम् // (89) य यवादितो भूः / [3 / 1 / 107] यवादेः क्षेत्रमिति [अर्थे] यः स्यात् / / यव्यम् / यवक्यम् / उमादेर्वा / खञ् / उम्यम् / औमीनम् // 10 // स्याच्छाकटं शाकिनः शालिव्रीहेर्डञ्जल्पजनात् करणं मताद् यः / ल्वूद्वाहविरोधमरो ललाटात् कर्णात् तदलङ्करणं हि कण्ठात् // 3 / 1 / 11 // उपस्थिता // (90) स्याच्छाकटं शाकिनः / [3 / 1 / 11 / 1 / ] षष्ठ्यन्तात् तस्य क्षेत्रमित्यर्थे / इक्षूणां क्षेत्रम् इक्षुशाकटम् / इक्षुशाकिनम् / मूलशाकटम् / [मूलशाकिनम् // ] (91) शालिव्रीहेर्डञ् / [3 / 1 / 11 / 2 / ] तथा शालेयम् / [त्रैहेयम् / ] व्री लघुश्रुतः // (92) जल्पजनात् करणं मताद् यः / [3 / 1 / 11 / 3 / ] जनस्य जल्पः, मतस्य करणमित्यर्थे यः स्यात् / जन्यः / मतं ज्ञानम्, तस्य करणं मत्यम् / भावः, कारकं वा // (93) ल्वद्वाहविरोधमरः / [3 / 1 / 11 / 4 / ] अर् / अदेवासुरादिद्वन्द्वर् प्रत्याहारः / तस्याद्वाहो विरोधो वा वैरमित्यर्थे लित् च ल्वुः स्यात् / अत्रीणां च भरद्वाजानां च विवाहः, अत्रिभरद्वाजिका / कुरुकाशिका / बाभ्रवाणां च शालङ्कायनानां वैरं बाभ्रवशालङ्कायनिका / काकोलूकिका / अदेवासुरादि किम् ? दैवासुरम् / [राक्षोऽसुरम् / दैत्यासुरम् / ] लित् स्त्र्यर्थम् // (94) ललाटात् कर्णात् तदलङ्करणं हि कण्ठात् / [3 / 1 / 11 / 5 / ] तदेषामलङ्करणं हीत्यर्थे ल्वुः स्यात् / ललाटिका / [कर्णिका / कण्ठिका] // 11 // ठञ् सीरहलाद् वोढा स न शकटादण ढब्यौ तु धुरोऽदेकात् ख उत्तरसर्वात् / स्याद्दक्षिणतो युग्यादीन्यञ्यञिञोऽण् सङ्के लक्षणघोषाङ्कात् शाकलतो वा // 3 / 112 // पुष्पविचित्रा //