________________ तृतीयोऽध्यायः प्रथमः पादः 183 (77) प्राग्बान्धवीयः / [3 / 1 / 9 / 4 / ] प्राग्बान्धवानां निवासो देशः, प्राग्बान्ध वीयोऽभिजन इति रूढः / स स्रुघ्नोऽभिजनोऽस्य, स्रौघ्नः / राष्ट्रियः // (78) अद्रिच्छ शस्त्रजीविनः / [3 / 1 / 9 / 4 / ] प्रथमान्ताद् अदिवाचिनः छ: स्यात् सोऽभिजनोऽस्य शस्त्रजीविन इत्यर्थे / हृद्गोलोऽद्रिरभिजनः एषाम्, हृद्गोलीयाः / अन्धधर्मीयाः / अद्रि किम् ? सांकाश्यकाः / आयुधजीविनः किम् ? अर्कोदाः ब्राह्मणाः अद्रिच्छ असुबन्ती / / (79) शालातुरीयः / [3 / 1 / 9 / 5 / ] शलातुरोऽभिजनोऽस्येत्यर्थे छण् // (80) अणा तु सिन्धुशण्डिकादेः / [3 / 1 / 9 / 6 / ] सिन्ध्वादिण्डिकादी अभिजनाद् अनयोरित्यर्थे यथाक्रमम् अण्ण्यौ स्तः / अत्र वृत्तेऽनुष्टुप् सिन्धूरसौ सङ्कचितावसानौ किष्किन्धगन्धारदरत्तु शाल्वः / कश्मीरवत्सोद्धरणौ च कम्बोजावासकोष्ठाः शककाण्डकारौ // 1 // किन्नरवर्वरपर्वतकर्णाः कंसकिमेदुरवर्ण च सिंहो - / ऽर्धासनगब्दिकतक्षशिलाग्रामण्यथवा मधुमच्च गणोऽयम् // 2 // शण्डिकसर्वसेनौ च सर्वकंशः शक: शटः / कुचवारावही बोधः भरशङ्खौ गणः स्मृताः // 3 / / सिन्धुबान्धवीयोऽस्य सैन्धवः / औरस इत्यादि / कृच्छ्रायुकानां नृतत्स्थवुञ् न / . राष्ट्राख्यवाहीकग्रामाणां जिकवौ न / तथा शाण्डिक्य इत्यादि / (81) ढञ् तुदिवर्मतितस्तु / [3 / 1 / 9 / 7 / ] तो बान्धवीयावस्यति ढञ् / द्वंद्वैकत्वाद् हुस्वनिर्देशः / तौदेयः / वार्मतयः // (82) भक्तिः / [3 / 1 / 9 / 8 / ] सेव्यः / सौम्येत्यर्थे यथाविध्यण्यादी स्तः / स्रुघ्नो भक्तिरस्य स्रोन्नः // 9 // तन्नामराज्ञः सकलोऽबि राष्ट्रवद् डस आम्नायसमूहधर्माः / आथर्वणो( ज्यश्च ) नटतः स्वमह्नाऽऽप्येऽश्वात् खञन्नाद्य यवादितो भूः // 3 / 1 / 10 // वृत्तम् // (83) तन्नामराज्ञः सकलोऽबि राष्ट्रवत् / [3 / 1 / 10 / 1 / ] राष्ट्रवज्जनपदवत् सकल: प्रकृतिप्रत्ययप्रयोगः स्यात्, तन्नामराज्ञः राष्ट्राख्यक्षत्रियाभिधायि शब्दात, अबीति अपप्रत्याहारगृहीतप्रत्ययविषये, सोऽस्य भक्तिरित्यर्थे / अङ्गा जनपदो भक्तिरस्य, आङ्गकः / वाङ्गकः / सौह्मकः / पौण्ड्रकः / तद्वद् अङ्गाः क्षत्रिया भक्तिरस्य आङ्गकः / [वाङ्गकः / सौह्मकः / पौण्ड्रकः / ] सकल: किम ? प्रकृतेरप्यतिदेशार्थम् / मद्रस्यापत्यं माद्रः / वार्त्यः / सोऽस्य भक्तिः / मद्रकः / वृजिकः / अबि किम् / पञ्चालानां ब्राह्मणा भक्तिरस्य पञ्चालाः / तन्नाम्नां किम् ? अनुपण्डो जनपदः / पौरवो राजा, सोऽस्य भक्तिः पौरवीयः // (84) उस आम्नायसमूहधर्मा आथर्वणः / [ 3 / 1 / 10 / 2 / ] ङसः षष्ठ्यन्तात्