________________ 182 पञ्चग्रन्थी व्याकरणम् (66) मयप्यनृहेतुतः / [3 / 1 / 8 / 7 / ] नृवाचिभ्यो हेतुवाचिभ्य आगत इत्यर्थे प्रत्येकं मयट्प्यौ वा स्तः / देवदत्तमयम् / देवदत्तरूप्यम् / दैवदत्तम् / सममयम् / [समरूप्यम् / समीयम् // (67) भूः / [3 / 18 / 8 / ] भवतीति भू / असुप् पञ्चम्यन्तात् प्रभवतीत्यर्थे यथाविध्यणादी स्युः / हिमवत उपलभ्यते, हैमवती गङ्गा / दारदी सिन्धुः // (68) उपज्ञातमु छु / [3 / 18 / 9 / ] टेति तृतीयान्ताद् यथाविधि तौ स्तः / उपज्ञातं विनोपदेशेन ज्ञातमित्यर्थे / उ निपातः / पाणिनिनोपज्ञातं पाणिनीयमकालकं व्याकरणम् / चान्द्रमसमसंज्ञकम् // (69) कृत / [3 / 1 / 8 / 10 / ] न्तिात् कत इत्यर्थे यथाविधि तौ स्तः / चन्द्रेण कृताः, चान्द्राः श्लोकाः / पातञ्जलं महाभाष्यम् / वैश्वकर्मः प्रासादः / क्षौद्रं मधु भ्रामरम्. / वारटम् / सारधम् // __(70) वातपादण् / [3 / 1 / 8 / 11 / ] तथा वातपमधुनश्छो नाम्नीष्यते / [वातपम् / ] वातपीयोऽन्यत्र // (71) ग्रन्थेऽधिकृत्याम् / [3 / 1 / 8 / 12 / ] अमिति द्वितीयान्तात् तमधिकृत्य कृतो ग्रन्थ इत्यर्थे यथाविधि तौ स्तः / सुभद्रामधिकृत्य कृतो ग्रन्थः / सौभद्रः / सौमित्रः // (72) च लुक् / [3 / 18 / 13 / ] एतदर्थोऽणपि लुक् स्यात् / आख्यायिकेभ्यो विवक्षार्थत्वाच्चकारस्य लिङ्गं वचः प्रागिव / वासवदत्ता / सुमनोत्तरा / उर्वशी / आख्यायिका / न च / भैमरथी // (73) एति दूतः पन्थाश्च / [3 / 18 / 14 / ] एति गच्छति. दूतः पन्था चेत्यर्थेऽमः यथाविध्यण्घादी स्तः / स्रुघ्नं गच्छति दूतः, पन्था वा, स्रौघ्नः / राष्ट्रियः / एतौ किम् ? स्रुघ्न गच्छति सार्थः // (74) निष्क्रामति गोपुरं तु / [3 / 1 / 8 / 15 / ] द्वारमभिनिष्क्रामतीत्यर्थे यथाविध्यणघादी स्तः / स्रुघ्नमभिनिष्क्रामति कान्यकुब्जस्य द्वारं स्रौघ्नम् / द्वारं किम् स्रुघ्नमभिनिष्क्रामति पुरुषः // 8 // कालोऽस्य सोढः स निवासदेशः प्राग्बान्धवीयोऽद्रिच्छशस्त्रजीविनः / . शालातुरीयोऽण्य तु सिन्धुशण्डिकादेढऋतुदिवर्मतितस्तु भक्तिः // 3 / 1 / 9 // उपजातिः // (75) कालोऽस्य सोढः / [3 / 1 / 9 / 1 / ] स इति प्रथमान्तात् कालादस्य सो ढो जितोऽभ्यस्त इत्यर्थे यथाविध्यण्घादी स्तः / निशाध्येयमपि निशाध्ययनम्, तत् सोढमस्य, नैशः / नैशिकः // (76) निवासदेशः / [3 / 1 / 9 / 2 / ] प्रथमान्तान्निवासोऽस्य देश इत्यर्थे यथाविध्यण्घादी स्तः / निवास असुप् / स्रुघ्नो निवासऽस्य स्रौघ्नः / [माथुरः // ]