________________ 114 पञ्चग्रन्थी व्याकरणम् (27) ठ / [3 / 2 / 5 / 4 / ] तथा ण्यो वा / षण्मासिकः / अठोऽर्थं पृथक् // (28) खत् समायाः / [3 / 2 / 5 / 5 / ] तं भूतादौ / [समाम् अधीष्टो, भृतो, भूतो भावी वा] समीनः // (29) द्विगोश्च / [3 / 2 / 5 / 6 / ] तथैव / चकारो वानुकर्षार्थः / तेन ठञ् च / द्विसमीनः / द्वैसमिकः // (30) संवत्सररात्र्यहोभ्यः / [ 3 / 2 / 5 / 7 / ] एतदन्ताद् द्विगोः भूतादौ खत् ठञ् च स्यात् / द्विसंवत्सरीणः / द्विसांवत्सरिकः / त्रिरात्रीणः / त्रैरात्रिकः / व्यहीनः / द्वैयह्निकः / अह्नः खे एव नित् / समाहारे / द्वार्हनम् / द्वैयह्निकम् // (31) लुग्वर्षतः / [ 3 / 2 / 5 / 8 / ] वर्षा[न्ता]द् द्विगोः भूतादौ खञ् ठञ् च लुक् / . द्विवर्षीणः / द्विवर्षिक: / द्विवार्षः / भाविनि, द्वैवषिकम् // (32) प्राणिनि / [ 3 / 2 / 5 / 9 / ] अर्थे भूतादौ लुग् नित्यं, पार्थक्यात् / सार्धपञ्चवर्षः दारकः / प्राणिनि किम् ? द्विवर्षीणो व्याधिः // (33) ठः शताद्यः आदिमाने तु / [3 / 2 / 5 / 10 / ] आर्हाद् योऽर्थो मानवर्जितस्तत्र शतात् ठयौ स्तः / शतेन क्रीतं शत्यं, शतिकं वस्त्रम् / अमाने किम् ? शतं परिमाणमस्य शतकं स्तोत्रम् / द्विशतकम् // (34) ठडर्धकंसात् / [ 3 / 2 / 5 / 11 / ] आीयेऽर्थे / अर्धेन क्रीतः अधिकः / कंसिकः // (35) त्रिंशड्ड्वुकोऽनाम्नि तु विंशतेः / [3 / 2 / 5 / 12 / ] आभ्यामाीये ड्युः स्यात् तथा / त्रिंशतम् / [विंशकम् / ] नाम्नि तन्मानमस्य / त्रिंशत्कः / [विंशतिकः // ] (36) कः / [ 3 / 2 / 5 / 13 / ] तथाभ्याम् / त्रिंशत्कः / [विंशतिक:] // 5 // संख्यातोऽतिशतोऽद्वतोष्टिवसनोऽण्वा शूर्पतो विंशतिकात् खः स्याद् द्विगुतोऽपि लुक् च सुवर्णाद् वा द्वित्रिबह्वादिनि-। ष्काद् बिस्ताच्छतमानोऽण च सहस्त्रात कार्षापणाट ठट प्रति यः शाणाद् द्वित्रितोऽण् शताद् य पणतो माषाच्च पादात् सदा // 3 // 26 // [ शार्दूलविक्रीऽतिम् / ] (37) संख्यातोऽतिशतः / [3 / 26 / 1 / ] संख्यायाः, अत इति अत्प्रत्याहारगृहीताध्यर्धशब्दाद् अर्धादिपूरणप्रत्ययान्ताच्च औपदेशकत्यतशदन्तवर्जितात्, आर्हीयेऽर्थे को वा स्यात् / दशभिः क्रीतः, दशकः / पञ्चकः / बहुकः / कतिकः / गणकः / अध्यर्धकः / अध्यर्धपञ्चमकः / अतिशत् किम् ? साप्ततिकः / पाञ्चाशत्कः // (38) अद्वतोष्टि / [3 / 2 / 6 / 2 / ] अत्वत्सदन्तसंख्याया आीयस्य कस्य दित् इटि इडागमो वा स्यादित्यर्थः / तावता क्रीतः, तावतिकः / तावत्कः / यावतिकः / [यावत्कः // ]