________________ तृतीयोऽध्यायः प्रथमः पादः 179 मूले जातः मूलकः / आद्रकः / भान्नाण् / प्रदोषकः / न वाञ् / पथिन् पथ: स्यात् / पन्थंकः / नाण् / अपराह्नकः / [पूर्वाह्नक: / ] वाऽचो नः / तन औ / अवस्करकः / नाण् / का इति / क अ एतौ स्तः / अमावस्या / वद्भिस् पर्यायार्थम् / अमावस्यकः / अमावस्यः / आमावस्यकः / [आमावस्यः / / त्रयोदशाद य एव / आमावास्यः / आभ्यां क अण च स्त अपकरकः / सिन्धुकः / अण् च / [सैन्धुकः / आपकरः / ] नाणेत् / कच्छादिसिद्धौ नृतत्स्थवुञ् लुक् स्याज्जातार्थे / अणादि विशाखादेः / विशाख इत्यादि / ट्याङोलुंगणादि लुकि / रेवत्यादि: स्त्रियां लुक् / रेवत्यां जाता रैवती / [रौहिणी] गौरादिङी चित्रा / तदिति स्त्रियो नात्र रेवत्यादेः / मृगशिर आदेश्च / लुग्वाऽण् वा जातार्थे / रेवतिः / रैवतः / [रोहिणी / रौहिणः / चित्रा / चैत्रः / मृगशिराः मार्गशीर्षः / टअत् / एतौ क्रमेणाभ्यां स्तः / फल्गुनी / अषाढा / स्त्री लुग्वा / फाल्गुनः / आषाढः / श्रविष्ठाषाढाभ्यां छण् / लुग्वा / श्राविष्ठीयः / श्रविष्ठः / नाण् / टिदण् / बहुलं भात् / शातभिषः / शातभिषजः / वुञ् शरदः, न ऋत्वण् / शारदकाः दर्भाः मुद्गाश्च, नाम / अधस् [अवस्] आभ्यां डमः स्यात् / अधमः / अवमः / अनाम्नि यथाप्राप्तमेव / मौलः / आपराह्निकः / [पौर्वाह्निकः / ] पूर्वाह्नेतनः / [अपराह्नेतनः / ] यावत् शारदं सस्यम् // 5 // क्रीताप्तसंभूतकृता अभिज्ञः साधूप्तपुष्ष्यत्त्विह पच्यमानम् / कालादणं देयमृणन्मृगस्तु भक्ताण्ण साधुWण पर्षदो यक् // 3 / 16 // इन्द्रवज्रा // " (43) क्रीताप्तसम्भूतकृता अभिज्ञः / [3 / 1 / 6 / 1 / ] ड्यन्ताद् यथाविध्यणघादी स्त: क्रीत्याद्यर्थे / स्रुघ्ने क्रीतः लब्धः संभवति कृतः कुशलो वा स्रौघ्नः / [माथुरः / नादेयः / ] राष्ट्रियः / [पारीणः / ] (44) साधूप्तपुष्ष्यत्विहपच्यमानं कालात् / [3 / 1 / 6 / 2 / ] कालवाचिनः अण्घादी स्तः साध्वादौ / हेमन्ते साधुः हेमन्तः, हैमनो वा प्रावारः / शैशिरमनुलेपनम् / हेमन्ते उप्यन्ते [हैमन्ताः] हेमनाः [वा] यवाः / ग्रैष्माः शालयः / वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः / ग्रैष्म्यः पाटलाः / शरदि पच्यन्ते शारदाः शालयः / ग्रैष्मा यवाः // (45) ऋणं देयम् / [3 / 1 / 6 / 3 / ] ड्यन्तकालाद् यथाविध्यण्घादी स्तः, देयमृणमित्यर्थे / मासे देयं मासिकम् / सांवत्सरिकम् / ऋणं किम् ? मासे देया भिक्षा // (46) ऋणन्मृगस्तु / [3 / 16 / 4 / ] ड्यन्तकालाद्यथाविधि तौ स्त ऋणन्निति व्याहरति मृग इत्यर्थे / निशायां व्याहरति मृगः नैशः, नैशिकः / प्रादोषः / प्रादोषिकः / [मृगः] किम् ? निशायां व्याहरत्युलूकः // (47) भक्ताण्ण साधुः / [ 3 / 1 / 6 / 5 / ] भक्ते साधुरित्यर्थे णः स्यात् / भक्ताः शालयः / तण्डुलाः साधुर्योग्यः प्रवीणो वा // (48) ण्यण पर्षदः / [3 / 1 / 6 / 6 / ] सः साधुरत्रेत्यर्थे / पार्षद्यः / पार्षदः // (49) यक् / [3 / 1 / 6 / 7 / ] ड्यन्तात् साधुरित्यर्थे [य] स्यात् / कर्मणि साधुः, कर्मण्यः / शरण्यः / वे[मन्यः] / सामन्यः / पित्र्यः / कित् ऋअर्थः // 6 //