________________ 580 पञ्चग्रन्थी व्याकरणम् कखञ्भयेदंयुगतोऽपि कर्मठो भवो दिगादेर्यखयौ कवर्गतः / शब्दे च मध्यन्दिन ठोऽन्तर:पुरात् स्थाम्नाजिनाल्लुग् दनुशीरतो ज्य तु // 3 // 17 // उपजातिः // (50) कखभयेदं युगतोऽपि / [3 / 17 / 1 / ] भ्यस् तम् / इदंयुगादौ च साधुरित्यर्थे कखौ क्रमेण स्तः / वृत्तं तथा पञ्चपदीह जयाश्मपादाः शकुनिश्च जायाकर्पत्परु हलादपिशाचहादाः / पन्थः पिचण्डो [निचयाचयौ च नयः शकुन्य]शनी च [चयश्च / ] म्याद वासुदेवार्जुनतस्तु भक्तौ // 1 // युगेदंसंसमात् सर्वविश्वपञ्चमहापरे / जनः कुलं पराऽमुष्यपरस्यात् शर्ववर्मणः / कृते कृञ्चेति पञ्चपात् // 2 // जये साधुः, जयकः / अश्मकः / पथिन् पथः, पन्थकः / भक्ताविति सभक्तिकस्येत्यर्थे / वासुदेवकः / [अर्जुनकः / इदंसंयमेभ्यो युगः / [इदंयुगः / संयुगः / समयुगः / ] एवं सर्वादः जनः / सर्वजनः / [विश्वजनः / पञ्चजनः / महाजनः / ] परादेः कुलम् / परकुलम् / अमुष्यकुलम् / परम्यकुलम् / लाघवामित्थम् / ऐदंयुगीन इत्यादि / कृते / शर्ववर्मणा कृत इत्यर्थे खञ् स्यात् / अजित् खमात्रं च / शार्ववर्मीणः // (51) कर्मठः / [3 / 17 / 2 / ] कर्मणि साधुरित्यर्थे स्यात् // (52) भवः / [3 / 17 / 3 / ] ड्यन्ताद् भव इत्यर्थे यथाविध्यणघादी स्तः / स्रुघ्ने भवः स्रोघ्नः / राष्ट्रियः // (53) दिगादेर्यः / [3 / 17 / 4 / ] ड्यन्ताद् भवे / अत्र षट्पात् दिग्वर्गपृगान्तरपक्षधाय्याः साक्षिन्नुखालीकपथिनहोऽन्ताः / गणाद्यमित्राः वनकालमेघाः न्यायानुवंशौ च वेशोऽकालः / आकाशदेहांशमुखं जघन्योदक्ये च छन्दोर्थ उर:कृते च // 1 // दिशि भवो दिश्यः / वर्ग्यः इत्यादि / देहांशात् / दन्त्यम् / ओष्ठ्यम् / पृथग् मुखात्, प्रधानार्थम् / जघनादप्रधानार्थं यान्तम् / छन्दोर्थ उदक्यात् / उदिक्या नामार्थम् / रजस्वला एवमर्थे इति / छन्दसामर्थः व्याख्यानमित्यर्थे / छन्दस्यो ग्रन्थः / कृते च / छन्दसा कृत इत्यर्थे च नाम्नि, छन्दस्यः / अनाम्नि, छान्दसः / तथोरसा कृतः, उरस्यः पुत्रः, औरसश्च / (54) खयौ छ वर्गतः / [3 / 17 / 5 / ] ड्यन्ताद् भवे स्युः / पुनर्वर्गो ङयः तदन्तार्थम् / तद्वत् खछौ च / विष्णुवर्गीणम् / विष्णुवर्यः / विष्णुवर्गीयः अर्जुनवर्गीणः / [अर्जुनवर्यः / अर्जुनवर्गीयः / वासुदेववर्गीणः / वासुदेववर्यः / वासुदेववर्गीयः // ] (55) शब्दे च / [3 / 17 / 6 / ] वाच्येऽत्र भवेऽतश्छ एव / वर्गीयः //